"तेलुगु" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १५७:
नन्नयकालानन्तरं मुख्यानि सामाजिकधार्मिकसंस्करणानि अभवन् । वीरशैवस्य भक्तिमार्गस्य च प्राबल्यवशात् नैकानि काव्यानि प्रादुरभूवन् । तिक्कनः (१३ शतब्दीयः ) एर्रणः ( १४ शतब्दीयः ) च भारतान्ध्रीकरणम् अनुवर्तितवन्तौ । नन्नयप्रदर्शितमार्गेण असंख्याकाः कवयः पद्यकाव्यानि व्यरचयन् । तत्र विद्यमानेषु अधिकानि पुराणानाम् आधारेण एव लिखितानि ।
 
===क्रीसा.श. १४०० – १५०० – (मध्ययुगम् श्रीनाथयुगम्)===
 
अस्मिन् काले संस्कृतकाव्यानां नाटकानां च अनुवादः अन्ववर्तत । कथाकाव्यानि अपि समुदितानि । “प्रबन्धः” इति काव्यप्रभेदः अस्मिन्नेव काले समजनि । श्रीनाथः, पोतनः, जक्कनः, गौरनः च इत्यादयः अस्मिन् काले सुप्रख्याताः कवयः आसन् । छन्दश्शास्त्रं च महतीं परिणतिं गता । श्रीनाथस्य शृङ्गारनैषधम्, पोतनस्य श्रीमद्भागवतम्, जक्कनस्य विक्रमार्कचरितम्, ताल्लपाक तिम्मक्कायाः सुभद्राकल्याणम् इत्यादीनि युगस्यास्य प्रमुखानि काव्यानि आसन् ।
"https://sa.wikipedia.org/wiki/तेलुगु" इत्यस्माद् प्रतिप्राप्तम्