"तेलुगु" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : यथादृश्यसम्पादिका जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १४८:
तेलुगुभाषासाहित्यं षट्सु युगेषु वर्गीकर्तुं शक्यते ।
यथा-
===क्रीसा.श. १०२० पर्यन्तम् – नन्नयकवेः पूर्वतनकालः===
 
(११) एकादशशताब्दकाले नन्नयविरचितं “श्रीमदान्ध्रमहाभारतं” तेलुगुभाषायाः सर्वप्रथमं साहित्यकाव्यमिति सर्वत्र वदन्ति । सपदि एव एतावत् बृहत्तरं परिपक्वं च महाकाव्यं समुद्भूतम् इति तु सर्वथा अनूह्यम् । अतः एतस्मात् पूर्वमपि योग्यं साहित्यं स्यादेव । प्रायः तत् साहित्यं ग्रन्थरूपतां न गतं स्यात् । अथवा अस्माभिः न उपलभ्येत । ततः पूर्वतनं साहित्यं बाहुल्येन जानपदरूपेण स्थितं स्यात् इत्यत्र अस्ति कश्चन सम्भवः । परं तद्विषये उपलभ्यमानं प्रमाणं सर्वथा शून्यम् । क्री.श. ५७५ तमवर्षस्य रेनाटिचोलानां शासनमेव आदिमं तेलुगुशासनम् ( कडपजिल्लायाः कमलापुरतालुकायाः एर्रगुडिपाडुग्रामे उपलब्धम् ) । ततः पूर्वकालसम्बद्धे अमरावतीशासने “नागबु” इति पदं दृश्यते ।
 
 
===क्री.श. १०२० – १४०० – पुराणयुगम्===
 
युगमिदं नन्नययुगमिति वक्तुं शक्यते । नन्नयः आन्ध्रीयः आदिकविः । अयं च महाकविः श्रीमन्महाभारतं तेलुगुभाषया अनूदितुम् उद्युक्तः सन् तत्रत्यम् आदिमं पर्वद्वयं परिसमाप्य तृतीयं ( अरण्यपर्व ) च अर्धं यावत् विलिख्य पञ्चत्वं गतः । नारायणभट्टः नन्नयस्य सहायत्वेन अतिष्ठत् । नारायणभट्टः वाङ्मयदुरन्धरः अष्टभाषाकविशेखरः च । सहाध्यायिनौ नारायणनन्नयभट्टौ भारतयुद्धाय सन्नद्धौ कृष्णार्जुनौ इव महाभारतान्ध्रीकरणाय कृतसङ्कल्पौ भारतं विज्ञानसर्वस्वम् इति समुद्घोषयितुं प्रयत्नम् आरब्धवन्तौ । ततश्च तेलुगुकाव्यभाषास्वरूपस्य परिपूर्णतां सम्पाद्य पण्डितैः पामरैश्चापि श्लाघनीयां शैलीम् आरचय्य उत्तरोत्तरकवीनां मार्गदर्शकौ सञ्जातौ । आन्ध्रभाषाचरित्रे नन्नयनारायणभट्टौ युगपुरुषौ । एतौ तेलुगुभाषायाः कञ्चन मार्गं निर्दिष्टवन्तौ । अनयोः अनन्तरकवयः सर्वेऽपि तद्यदा नन्नयमार्गम् अनुसृतवन्तः एव ।
Line १६२ ⟶ १६३:
सन्दर्भेऽस्मिन् रामायणकवीनां प्रस्तुतिः अपि शक्यते । गोन बुद्धारेड्डिविरचितं “रङ्गनाथरामायणम्” एव अस्मत्प्राप्तम् आदिमं रामायणम् ।
 
===क्री.शसा. १५१० – १६०० – (प्रबन्धयुगम्)===
 
विजयनगरसाम्राज्यस्य चक्रवर्तिनः श्रीकृष्णदेवरायस्य समादरवशात् (१६) षोडशशताब्द्यां तेलुगुसाहित्यस्य स्वर्णयुगं विकसितम् । स्वयं कविः महाराजः “आमुक्तमाल्यदा” इति स्वकीयरचनया “प्रबन्धः” नाम काव्यप्रभेदं समुपास्थापयत् । अस्य कालस्य अतीव प्रमुखैः “अष्टदिग्गजकविभिः” महाराजास्थानं नितारां समशोभत ।
 
===क्रीसा.श. १६०० – १८२० – (दाक्षिणात्ययुगम्)===
 
कर्णाटकसङ्गीतस्य नैके विद्वांसः तदीयं साहित्यं तेलुगुभाषया एव अरचयन् । तादृशप्रसिद्धेषु विद्वत्सु त्यागराजः, अन्नमाचार्यः, क्षेत्रय्यः, रामदासः च इत्यादिवाग्गेयकाराः अन्यतमाः सन्ति । मैसूरुवासुदेवाचार् इत्यादयः आधुनिकरचयितारः अपि स्वरचनानां माध्यमत्वेन तेलुगुभाषाम् एव स्वीकृतवन्तः ।
 
===क्रीसा.श. १८२० अनन्तरम् – आधुनिकयुगम्===
 
यद्यपि १७९६ तमे वर्षे एव मुद्रितस्य तेलुगुग्रन्थस्य विमुक्तिः सञ्जाता, तथापि तेलुगुसाहित्यस्य पुनरुद्धरणं तु (१९) नवदशशताब्द्याः आरम्भे साध्यम् अभूत् । (१९) नवदशशताब्द्याः मध्यकाले षेल्ली, कीट्स्, वर्ड् वर्त् इत्यादिपाश्चात्यकवीनां कविताभिः नितरां प्रभाविताः युवकवयः “भावकवित्वम्” इत्यस्य विनूत्नस्य प्रणयकविताप्रभेदस्य आविष्कारम् अकुर्वन् ।
"https://sa.wikipedia.org/wiki/तेलुगु" इत्यस्माद् प्रतिप्राप्तम्