"सिन्धूनदी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
सिन्धुः भारतस्य एका मुख्या नदी। सिन्धुः मानसरोवरस्य समीपे उद्भवती। कश्मीरे सृत्वा पाकिस्थानदेशे सिन्धुप्रदेशे पश्चिमसमुद्रम् संयाति। तस्याः सम्युक्तनद्यः [[शुतुद्री]], [[इरावती]], [[चन्द्रभागा]], [[विपाशा]], [[वितस्ता]], [[कुभा]] आदयः। सा भारतभूभागस्य अतिदीर्घा नदी। अस्याः तीरे अनेके राज्याः स्थापिताः। सा ऋग्वेदे अपि शंसिता। सा पवित्रा इति अनेके जनाः मन्यन्ते। उक्तञ्च "गङ्गे च यमुने चैव गोधावरी सरस्वती नर्मदे [[सिन्धु]] कावेरी जलेSस्मिन् सन्निधिम् कुरु"
[[File:Indus river, Pakistan.jpg|thumb|right|180px|सिन्धौ सेतुः]]
==जन्तवः==
सिधुनद्याम् अन्धाः शिशुमाराः(''Platanista gangetica minor'') वसन्ति। सिन्धौ विविधाः मत्स्याः सन्ति। पुरा अस्याः तीरे वनानि आसन् यत्र गण्डकाः गजाः महिषाः आदयः पशवः अवसन्। परम् मनुष्यकर्मणा इमानि अरण्यानि भिन्नानि।
"https://sa.wikipedia.org/wiki/सिन्धूनदी" इत्यस्माद् प्रतिप्राप्तम्