"सत्येन्द्रनाथ बसु" इत्यस्य संस्करणे भेदः

पङ्क्तिः ६:
बसुवर्य: कोल्कत्ता नगरे १ जनवरि १८९४ तमे दिनांके जात: | स: सुरेन्द्रनाथ बसु अस्य सप्त पुत्रेषु ज्येष्ठपुत्र: | तस्य पिता 'ईस्ट् इण्डिया रेल्वे कम्पनि' अस्य 'ऎन्जिनियरिङ्ग्' विभागे कार्यं वहति स्म | बसुवर्य: कोल्कत्ता नगरे विद्यमानायाम् हिन्दुशालायाम् स्वस्य प्रथमशिक्षणं प्राप्त्वा तदनन्तरं 'प्रसिडॆन्सी' कलाशालायाम् पठितवान् | तत्र जगदीश चन्द्र बसु:, प्रफ़ुल्ल चन्द्र राय:, इत्यादि महान्त: आचार्या: तं प्रेरयितवन्त: | प्रौढशालायाम्, अपि च कलाशालायां स: उन्नततमान् अङ्कान् प्राप्तवान् | १९१६त: १९२१ पर्यन्तं स: कलकत्ता विश्वविद्यानिलयस्य भौतिकशास्त्रविभागे पाठयितवान् | १९२१ तमे वर्षे इदानीं बाङ्ग्लादेशे विद्यमाने, तदानीं नूतने, ढाखा विश्वविद्यानिलये भौतिकशास्त्रविभागे कार्यं वहितवान् |
 
१९२४ तमे वर्षे, यदा बसुवर्य: ढाखा विश्वविद्यानिलयस्य भौतिकशास्त्रविभागे 'रीडर्' पदव्याम् कार्यं कुर्वन्त: आसन्, तदा स: प्लाङ्क् सिद्धान्तस्य प्राचीनभौतिकस्य सिद्धान्तान् विना उपयुज्य, केवलं काणानां अवस्थानां गणनस्य एका नूतना विधिम् उपयुज्य, व्युत्पत्तिम् विवरन् एकं लेखं लिलेख | किन्तु वैज्ञानिकपत्रिकेषु अस्य प्रकाशणे असफल: स: तं लेखं [[अल्बर्ट आइन्स्टाइन]] प्रति प्रेषयामास | ऐन्स्टैन्वर्य: तल्लेखस्य प्रामुख्यं ज्ञात्वा स: स्वयं तस्य जर्मन् भाषायां अनुवादनं कृत्वा 'ज़ाइट् श्रिफ़्ट् फ़्यूर् फुज़ीक्' अबिधे अतिश्रीलभौतिकशास्त्रपत्रिके बसुवर्यस्य कृते प्रकाशयामास | अनया प्रत्यभिज्ञतया बसुवर्य: प्रथमवारं भारतात् बहि: गन्तुं शक्त: भूत्वा, वर्षद्वयं यूरोप् मध्ये लूयि डि ब्राय्, मेरी क्यूरी, [[अल्बर्ट आइन्स्टाइन]] इत्यादि प्रमुख वैज्ञानिकेभ्य: सह संशोधनं चकार |
 
तद्वर्षद्वयानन्तरं १९२६ तमे वर्षे ढाखां प्रत्यागम्य ढाका विश्वविद्यानिलये प्राध्यापक:, अपि च भौतिकशास्त्रविभागस्य अध्यक्ष: अभवत् | १९४५ पर्यन्तं स: तस्मिन्नेव विश्वविद्यानिलये पाठयितवान् | स: तत्विश्वविद्यानिलयस्य विज्ञान विभागस्य प्राध्यक्षस्य पदवीं चिरकालं विवाह | यदा भारतस्य विभजनं अनिवार्य: अभवत्, तदा स: कल्कत्ताम् प्रत्यागम्य कल्कत्ताविश्वविद्यानिलये १९५६ पर्यन्तं पाठयितवान्, यदनन्तरं स: सेवानिकृत्तिं प्राप्य 'प्रॊफ़ॆसर् ऎमॆरिटस्' अभवत् |
 
== बोस्-आइन्स्टैन् संघननिका ==
 
* [[भारतीय-सूची]]
"https://sa.wikipedia.org/wiki/सत्येन्द्रनाथ_बसु" इत्यस्माद् प्रतिप्राप्तम्