"सत्येन्द्रनाथ बसु" इत्यस्य संस्करणे भेदः

पङ्क्तिः २:
 
== आदिक जीवनं, तथा पठनम् ==
<gallery>
http://upload.wikimedia.org/wikipedia/commons/a/ac/AatyenBose1925.jpg
 
</gallery>
बसुवर्य: कोल्कत्ता नगरे १ जनवरि १८९४ तमे दिनांके जात: | स: सुरेन्द्रनाथ बसु अस्य सप्त पुत्रेषु ज्येष्ठपुत्र: | तस्य पिता 'ईस्ट् इण्डिया रेल्वे कम्पनि' अस्य 'ऎन्जिनियरिङ्ग्' विभागे कार्यं वहति स्म | बसुवर्य: कोल्कत्ता नगरे विद्यमानायाम् हिन्दुशालायाम् स्वस्य प्रथमशिक्षणं प्राप्त्वा तदनन्तरं 'प्रसिडॆन्सी' कलाशालायाम् मेघनाद साहा महॊदयेन सह पठितवान् | तत्र जगदीश चन्द्र बसु:, प्रफ़ुल्ल चन्द्र राय:, इत्यादि महान्त: आचार्या: तौ प्रेरयितवन्त: | प्रौढशालायाम्, अपि च कलाशालायां स: उन्नततमान् अङ्कान् प्राप्तवान् | १९१६त: १९२१ पर्यन्तं स: कलकत्ता विश्वविद्यानिलयस्य भौतिकशास्त्रविभागे पाठयितवान् | तदा तस्य मित्रः साहा भागॆन सह जर्मन् भाषां पठित्वा ऐन्स्टैन् महोदयसय 'सापेक्षता सिद्धान्तस्य'(The theory of relativity) जगति प्रप्रथम आङ्ग्लानुवादम् कृतवन्तः । १९२१ तमे वर्षे इदानीं बाङ्ग्लादेशे विद्यमाने, तदानीं नूतने, ढाखा विश्वविद्यानिलये भौतिकशास्त्रविभागे कार्यं वहितवान् |
 
"https://sa.wikipedia.org/wiki/सत्येन्द्रनाथ_बसु" इत्यस्माद् प्रतिप्राप्तम्