शबरी रामयणस्य प्रसिद्धं पात्रम् ।अस्य रचयिता महर्षिः वालमीकिः ।अस्मिन् काव्ये बालकाण्डम्, अयोध्याकाण्डम्, अरण्यकाण्डम् किष्किन्दाकाण्डं, सुन्दरकाण्डं, युद्धकाण्डम्, अन्तरकाण्डम् इति सप्तकाण्डानि सन्ति । रामायणम् आदिकाव्यमित्यापि प्रसिद्धम् अत्रैव शबरी इत्येकस्याः कथा अपि वर्तते ।

ऋष्यमूकपर्वतस्य मूले पम्पासरोवरस्य तीरे मतङ्गमहर्षेः आश्रमः वर्तते । तस्मिन् आश्रमपदे शबरी नाम काचित् वृद्धा निवसति स्म । सा प्रभाते एव उत्थाय निखिलम् आश्रमपदं स्वच्छीकरोति स्म। पूजायै पुष्णाणी फलानि च आनयति स्म।

वृद्धायाः गुरुशुश्रूषां विलोक्य सन्तुष्टः मतङ्गमहर्षिः ताम् एवमवदत् "भद्रे, अहं स्वर्गं गच्छन् अस्मि । दशरथस्य पुत्रौ रामलक्षम्णौ सम्प्रति चित्रकूटं प्राप्तवन्तौ। तयोः सेवनात् तव सद्गतिः भविष्यति" इति ।

तदारभ्य शबरी सदा रामध्यानं कुर्वती तं प्रतीक्षमाणा आसीत् । रामोऽपि भार्यावियुक्तः तास्मिन् आश्रामपदे आगच्छत् शबरी रामं प्रणीपत्य फलानि समर्प्य सत्कारम् अकरोत् । अपि च गुरोः लोकं गन्तुम् ऐच्छत् । तदा रामः शबर्याः सद्भावनया सन्तुष्टः तस्याः अनुग्रहम् अकरोत् । ततः सा दिव्यशरीरं प्राप्य उत्तमं लोकम् अगच्छत् ।

"https://sa.wikipedia.org/w/index.php?title=शबरी&oldid=358314" इत्यस्माद् प्रतिप्राप्तम्