शब्दकल्पद्रुमो (Shabdhakalpadruma) राजराधाकान्तबहाद्दूरकस्य रचना । कल्पद्रुमः स्वर्गेऽस्तीति, स्वच्छायाम् आश्रितानां सर्वेषामप्यभीष्टार्थान् पूरयतीति च प्रसिध्दम् । एवमेव ये स्वाभीष्टशब्दानामर्थान् वा तदभिधानाभिधेयान् विचारान् वा प्राप्तुकामाः सन्त उपसर्पन्ति प्रकृतमपि कोशं तेषां सर्वेषां तत्तदभीष्टपूरणं करोतीति कारणात् “शब्दकल्पद्रुम” इति संज्ञितः कोश एष इति स्वयं कोषकर्ता ज्ञापयति ।

बृहदाकारवति संपुटपञ्चके मुद्रितोऽयं ग्रन्थः । प्रतिपुटं स्तम्भत्रयं (Three Columns)वर्ततेऽत्र । दर्शनेनैतस्य झटित्यस्माकं हृदये स्फुरति प्रसिध्दो महाभारतीयः श्लोकः-“ यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्” इति ।

समस्तानां शब्दानां व्युत्पत्तिः, शब्दानामुपलभ्यमानाः सर्वेऽर्थाः, प्रायेण सर्वेषामप्यर्थानामस्तित्वे प्रयोगैः साक्ष्याणि, विशिष्टविवरणसापेक्षेषु स्थलेषु मूलग्रन्थैः समग्रा उध्दृतयः, लघुनि ग्रन्थगात्रे समग्राणां ग्रन्थानां सर्वे भागाः-इत्यादिकं वैशिष्ट्यमस्य् कोशस्य । बृहति कोशेऽस्मिन् निरुपितानां विषयाणां पट्टिका प्रथमे संपुटे मुद्रिता । एतद्दर्शनेन सर्वेऽपि विस्मयेन मूका भवन्तीत्यत्र नातिशयोक्तिः ।

राधाकान्तदेवस्य जीवनचरित्रं शब्दकल्पद्रुमस्य प्रथमे संपुटे मुद्रितम् । रचयितुर्मूलपुरुषः श्रीहरिदेवः । तद्वंशे क्रमशः दुर्गावरः, विश्वेश्वरः, विध्नेश्वरः, पूर्णानन्दः,पीताम्बरश्च जाताः । पीताम्बरस्य धान्यपीताम्बर इत्यपि संज्ञाऽऽसीत् । पृथ्वीधरः, कुरनन्दनः, नित्यानन्दः, श्रीमान्, चण्डीवरः, परमानन्दः, काशीनाथ इत्यादयो वंशेऽस्मिन जाताः । अस्मिन्नेव वंशे जातस्य नवकृष्णदेवाख्यस्य नवकृष्णदेवाख्यस्य ईस्ट् इण्डिया कम्पेनई (East India Company) संस्थायां ‘मुन्षी’ उद्योगो लब्धः । स तु सिराजुद्दौला नामकं मुस्लिमराजं विरोधिनि प्रवृत्ते युध्दे तथा सिराजुद्दौलाराज मरणानन्तरं प्राप्तराज्यं कासीं आलीखानराजं विरोधिनि संगरे कर्नल् क्लैवनामकेन तथा मेजर आडमनामकेन च साकं स्वयमायोधनं कृतवान् । षाहा आलम् बादषाहानामकेना राज्ञा प्राप्त “ राजबहाद्दूर” बिरुदोऽयं काश्यां नवकृष्णेश्वरलिङ्गं प्रतिष्ठापयामास । कोल्कत्तायाः हेस्टिंग्स् अप्येतेन बहूनि राजकार्याणि कारितवान् ।

तदन्वये प्रसूतस्य गोपीमोहनदेवस्य पुत्र एव राधाकान्तदेवः एष वङ्गभाषा, फारसी, अरब्बी, इङ्ग्लीष् , संस्कृतं चेत्येतासु पञ्च भाषासु समासादितपाण्डित्यः सन् गवर्नरकस्येच्छानुसारेण म्याजिस्ट्रेटपदवीमलङ्कृतवान् ।द्वित्रान् ग्रन्थान् फारसीभाषात् इङ्गलीषभाषायामनूदितवांश्च ।

व्यावहारिकाः क्लेशा विशिष्टगुणवन्तमपि जनं बाधन्त एव । कदाचिदेतस्य विरोधे कोऽपि महानुभावो मिथ्याभियोगं पञ्चीकृतवानधिकरणे । परन्तु तत्पक्षीयस्य प्राड्विवाकस्य (Advocate) वाक्कौशलेन् अनपराध्दत्वमस्य निराबाधमाविष्कृतम् ।

राधाकान्तीया परमाद्भुता रचना शब्दकल्पद्रुमाख्या प्रथमे संस्करणे समादत्तवङ्गलिपिरासीदिति ज्ञायते । समाप्तेषु सर्वेषु पुस्तकेषु द्वितीयमुद्रणा प्रसंगे भारते मुम्बयीकाशीप्रभॄतिप्रदेशेषु प्रचुरप्रचारायाः देवनागर्था एवोपयोगः करणीय इति संपादकाभ्यां वरदाप्रसादवसु-हरिचरणवसुभ्यां निरणायीति विज्ञायते । प्रथमं मुद्रिते शब्दकल्पद्रुमे सर्वेषां शब्दानां व्युप्तत्तयो न दत्ताः । देवनागर्थां मुद्रिते द्वितीये संस्करणे सर्वेषामपि शब्दानां व्यत्पत्तयो योजिताः । न केवलमेतावदेव, सहस्रशो प्रथमसंस्करणाप्रविष्टा अपि शब्दाः प्रवेशिताः । एष सारः-अस्मदुपलब्यमानं शब्दकल्पद्रुमसंस्करणं राधाकान्त –वरदाप्रसादवसु-हरिचरणवसूनां त्रयाणां महापण्डितोत्तमानां भव्या रचना । त्रिमूर्तीनाम् अमीषां श्रध्दया तितिक्षया च संस्कृतसरस्वत्या श्चूडामणिरयं शब्दकल्पद्रुमः परम्परीणेऽध्ययने परं निष्ठानां पण्डितानां परामर्शनयोग्यः परमोत्कृष्टः कोशः संजातः ।

भूयस्सु स्थलेषु मूलग्रन्थानां केचन भागाः समग्रा यदत्र दत्तारस्तत् अनल्पाय गर्वाय समभूद् विदुषामेतत्कोषजुषां दोषज्ञानाममुद्रितमुख्य-ग्रन्थे काल इत्यत्र न संशयकणिका । हस्तप्रतिशास्त्रदृष्टया अनेकेषु ग्रन्थभागेषु उत्कृष्टाः पाठा अत्र दत्तेषु पाठयभागेषूपलभ्येरन् । मातृकाविज्ञाने सुज्ञाना नात्र पातितकटाक्षा इति तु भूरि विषाद्यम् । शब्दकल्पद्रुमेऽधुना सर्वत्र समुपलभ्यमाने मुद्रितानां वर्णानां विन्यासाः सर्वथाऽप्यहृद्या ये द्रष्टृणां हृदये दर्शनानुपदं संस्कृताभिमानस्य ह्रसिष्णुतामुत्पादयन्तीव । विद्यावतां भागधेयं मन्ये यत् प्रत्यग्रा वार्ता शब्दकल्पद्रुम संबध्दा कर्णपथातिथीभवतिः- तिरुपतिस्य –राष्ट्रीय –संस्कृत –विद्यापीठे नवीनं संस्करणं प्रकाशितं कोशस्यास्य यत्र पुनरक्षरसंयोजनं कारितं सुष्ठुतरया देवनागरीलिप्येति । प्रशस्यतममेतत् कर्म ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=शब्दकल्पद्रुमः&oldid=409745" इत्यस्माद् प्रतिप्राप्तम्