श्लोकः सम्पादयतु

 
गीतोपदेशः
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १५ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः सम्पादयतु

शरीरवाङ्मनोभिः यत् कर्म प्रारभते नरः न्याय्यं वा विपरीतं वा पञ्च एते तस्य हेतवः ॥

अन्वयः सम्पादयतु

नरः शरीरवाङ्मनोभिः न्याय्यं वा विपरीतं वा यत् कर्म प्रारभते तस्य एते पञ्च हेतवः ।

शब्दार्थः सम्पादयतु

शरीरवाङ्मनोभिः = कायवाक्चित्तैः
न्याय्यम् = धर्म्यम्
विपरीतम् = अधर्म्यम्
प्रारभते = करोति
हेतवः = कारणभूताः ।

अर्थः सम्पादयतु

सर्वकर्मसिद्धौ पञ्च कारणानि इत्युक्तम् । तैः जायमानानि कर्माणि प्रकारान्तरेण कायिकं वाचिकं मानसिकं चेति त्रेधा विभक्तुं शक्यम् । तच्च त्रिविधं कर्म धर्म्यम् अधर्म्यं वा भवितुमर्हति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=शरीरवाङ्मनोभिर्यत्...&oldid=418827" इत्यस्माद् प्रतिप्राप्तम्