७ शतकस्य मध्यभागतः ११ शतकस्य आदिभागपर्यन्तं भारते शासनम् अकरोत् शाहिराज्यम् । एतत् राज्यम् इदानीन्तनस्य अफघानिस्तानस्य पूर्वभागे, पकिस्तानस्य उत्तरभागे, काश्मीरे च प्रसृतम् आसीत् । तेषां राज्यस्य कालः बौद्धतुर्कशाहि, हिन्दुशाहि इति द्विधा विभज्यते । एवं परिवर्तनं क्रि श ८७० अवधौ अभवत् । गान्धारस्य अथवा अफघानिस्तानस्य शासनं कृतवत्सु बौद्ध अथवा हिन्दुराजवंशेषु अयमेव अन्तिमः राजवंशः । तदनन्तरम् अयं प्रदेशः घज्नवि तथा अन्यानां सुल्तनानाम् अधीनः जातः ।

"https://sa.wikipedia.org/w/index.php?title=शाहिराज्यम्&oldid=434387" इत्यस्माद् प्रतिप्राप्तम्