संस्कृतजगत्सङ्गणकप्रशिक्षणसंस्थानम्


संस्‍कृतजगत् एका सक्रिया असर्वकारीया संस्‍था (एन.जी.ओ.) अस्ति । अस्‍याः कार्यं केवलं संस्‍कृतभाषायाः प्रचार-प्रसारकार्यम् अस्ति । अस्‍याः कार्यकर्तारः निःस्‍वार्थभावेन निर्मूल्‍येन सहयोगं दीयन्‍ते । संस्‍कृतसम्‍बन्धि कस्‍याः अपि समस्‍यायाः समाधानार्थं सम्‍पर्कः कर्तुं शक्‍यन्‍ते । संस्‍कृतजगता सम्‍पादितानां कार्यानां किमपि शुल्‍कं देयं न भवति । मूल्‍यं तेषामेव वस्‍तूनां देयमस्ति येषां कृते संस्‍कृतजगत् अन्‍यान् जनान् सम्‍पर्कयति, तेषां जनानां सहयोगं च स्‍वीकरोति । संस्‍कृतजगतः (संस्‍कृतजगत् ईपत्रिका)[नष्टसम्पर्कः] ईपत्रिकाः अपि प्रकाश्‍यते । एषा पत्रिका त्रैमासिकी प्रकाश्‍यते । अस्‍यां पत्रिकायां कश्चिदपि आत्‍मनः संस्‍कृतलेखान् प्रकाशयितुं शक्‍यते । संस्‍कृतजगतपत्रिकायाम् आत्‍मनः लेखान् प्रकाशयितुं लेखान् pramukh@sanskritjagat.com ईपत्रे प्रेषयेत् ।

संस्‍कृतजगतः संस्‍थापकः संस्‍कृतभारतीसंस्‍थायाः एकः सक्रियकार्यकर्ता मान्‍यः श्रीविवेकानन्‍दः (आनन्‍द पाण्‍डेयः) Archived २०११-१२-२८ at the Wayback Machine इति अस्ति । अस्‍याः संस्‍थायाः प्रेरकेषु फैजाबाद, उत्‍तरप्रदेशस्‍य मान्‍यः कविः श्री अनिरुद्धमुनिपाण्‍डेयः 'आर्त' वर्यः, संस्‍कृतभारत्‍यः संस्‍थापकः आदरणीयः श्रीचमूकृष्‍णशास्त्रिवर्यः एवं च अन्‍ये महानुभावाः ये संस्‍कृतकार्यं वहन्‍तः सन्ति ते एव । अस्‍याः संस्‍थायाः स्‍थापना अगस्‍तमासे 03 दिनांके 2010 वर्षे ख्रीस्‍ताब्‍दे जातासीत् । सम्‍प्रति जालसूच्याः (ब्लाग) पाठकानां संख्‍या 140000तः अपि अधिकमस्ति । संस्‍कृतजगत् ईपत्रिकायाः पाठकाः 500तः अधिकाः अभवन् । लेखप्रेषकाः अपि शताधिकाः सन्ति ।

अस्‍माकं मुख्‍यकार्याणि

वयं सक्रियसंस्‍कृतलेखाः (Online Posts) प्रकाशयामः । अन्‍येषां संस्‍कृतविदुषां संस्‍कृतग्रन्‍थाः संस्‍कृतजगति निर्मूल्‍येन प्रकाशयामः । संस्‍कृतगीतानि, ग्रथनानि (Files) च प्रकाशयामः । निःशुल्‍कं संस्‍कृतप्रशिक्षणं प्रददामः । न्‍यूनमूल्‍येन संस्‍कृतग्रन्‍थानां सक्रियशिक्षाः (Online Tution) प्रददामः । न्‍यूनमूल्येन एव संस्‍कृतग्रन्‍थानां तलपूर्तिः (Downloading) प्रददामः । संस्‍कृत-गतिविधयः सम्‍पादयामः ।

संस्‍कृतजगतः फेसबुकपृष्‍ठम् संस्‍कृतजगतः ट्विटरपृष्‍ठम् जालसूचिका (ब्‍लाग) संस्‍कृतजगतः जालपृष्‍ठम् संस्‍कृतजगत् ईपत्रिका श्रृंखला

इत्‍युक्‍ते संस्‍कृताय एव अस्‍माकं जीवनम् । यदि भवन्‍तः अपि संस्‍कृतजगतः कार्यकर्ता भवितुं इच्‍छन्ति चेत् pramukh@sanskritjagat.com ईपत्रे लिखतु । सदस्‍यतां विना एव संस्‍कृतस्‍य सेवां कर्तुमिच्‍छन्ति चेदपि उपर्युक्‍ते ईपत्रे लिखन्‍तु । धन्‍यवादाः

सम्बद्धाः लेखाः सम्पादयतु