सदस्यः:2030599Deekshiths/प्रयोगपृष्ठम्

वेदगणितज्ञः

गणित विषये भारतस्य योगदानं जगत्येवासदश वर्तते शून्यान्वेषण प्राज्ञा भारतीया: एवेत्यङ्गी करोति विश्वमिदं सर्वदा भारतीय गणित परम्परा अतीव विशिष्टा प्राचीना चास्ति। वेदेषु तत्कालिकेषु अन्य ग्रन्थेषु च गणितीयांशानाम् उल्लेख: विशेषत: दृश्यते जनैः बहूना गणितीयविषयाणां ज्ञानं भारतादेव प्राप्तमिति विज्ञायते । आर्यभट, भास्कर, वराहमिहिरादय: गणितज्ञाः सुप्रसिद्धाः एव । आधुनिकेषु गणितज्ञेषु श्री श्री श्री भारतीकृष्णतीर्थस्वामिमहाभागः वेदगणितस्य साक्षात्कर्ता विराजती धार्मिक विषयाः सर्वेऽपि वैज्ञानिका इत्यंशः वेदेष्वन्तर्गतः इति ऐदम्प्राथम्येनाकथयत् स्वामिमहाभागः

गणितज्ञः स्वामिवरेण्यः क्रि.श. १८८४ तमे वर्षे मार्च-मासस्य १४ दिनाङ्के 14 तमिळनाडुराज्यस्य तिन्नवेलि ग्रामे अजायत। "वेङ्कटरमणः" इति पित्रा कृतना मधेयः एष: वाल्यादेव मेधावी, श्रद्धासम्पन्नः कक्ष्यासु सर्वदा प्रथमः ज्ञान पिपासुः च आसीता गुरोः वेदमूर्ति श्रीवेङ्कटराजशास्त्रिणः सकाशात संस्कृतं सम्यग् अधीतवान्। यदा एषः मेट्रिक्युलेधन परीक्षा स्वीकृतवान् तदैव मद्रास् संस्कृतसङ्घ एतस्य पाण्डित्यं दृष्ट्य 'सरस्वती' इत्युपाधिना सत्कारमकरोत् अनन्तर पदवीशिक्षण समाप्य अमेरिका विज्ञान महाविद्यालयस्य मुम्बयिकेन्द्रे स्नातकोत्तरपरीक्षां स्वीकृत्य उन्नतश्रेण्यामुत्तीर्णोऽभवत् । तंत्र गणित, संस्कृतम्, इतिहास, दर्शनम् आङ्ग्लभाषा विज्ञान तत्त्वज्ञानम् इति आहत्य सप्तविषयाः स्वीकृताः आसन स्वस्य विशतितमे वर्षे एवं एतादश ज्ञान संसाध्य शैक्षणिकक्षेत्रे अद्याप्युल्लेखार्हस्थानमलभत I

अध्ययनानन्तरमेष: महान् पण्डितः राज महेन्द्रिनगरे राष्ट्रिय महाविद्यालये प्राध्यापक रूपेण कार्यं निरवहत् I अध्यात्मविषये आकृष्टः एषः शृङ्गेरिशारदापीठमागत्य श्रीश्रीश्री सच्चिदानन्दशिवाभिनवनरसिंहस्वामिनाम् सन्निधाने अध्ययनम् आरभत I अनन्तरं क्रि.श.१९१९ तमे वर्षे सात्र्यासाश्रमं स्वीकृतवान् । ततः आरभ्य वेङ्कतरमणसरस्वतीमहोदयः श्रीश्रीश्रीभारतीकृष्णतीर्थस्वामिमहाभागः इत्येव प्रथितः । शङ्गिरावेवाष्टवर्षपर्यन्तमरण्यमध्ये तपस्तप्तवतः एतस्य ध्यानावस्थायां वेदगणितस्य | सूत्राणां साक्षात्कारोऽभवत् । अनन्तरमेष: अथर्ववेदेषु गणितविषये स्थितान् विविध शब्दानुप युज्य षोडश मुख्य सूत्राणां संशोधन करोत् । सूत्राण्येतान्युपयुज्य बीजगणितस्य अङ्कगणितस्य रेखागणितस्य वा समस्याः अतीव सरल रूपेण परिहर्तुं शक्यन्ते । अपि च सूत्र साहाय्येन मनस्येव गणनं कृत्वा उत्तरं वक्तुं प्रभवामः ।

क्रि.श. १९२५ तमे वर्षे पुर्यां गोवर्धन पीठस्य श्रीश्रीश्री मधुसूदनानन्दतीर्थ स्वामिमहाभागः अस्वस्थोऽभवत् I तदा श्रीभारतीकृष्णतीर्थस्वामिमहाभागः भक्तानामपेक्षया गोवर्धनपीठं समलङ्करोत् I ततश्च देश पर्यटनं कृत्वा भारतीय सनातन धर्मस्य प्रचारम करोत्। क्रि.श.१९५८ तमे वर्षे अमेरिका विश्वविद्यालयेषु वेदगणितविषये धार्मिक विषये भारतीयसंस्कृतिविषये च उपन्यासं कृत्वा (द्वितीय- विवेकानन्द) इति प्रसिद्धिं प्राप्नोता वदा मुनिवर्यः भारतमागच्छत् तदा स्वविरचितः विवरणात्मकः षोडश सूत्रव्याख्यान ग्रन्थः नष्ठे जातः इति विषयः अवगतः।सतत प्रवासेन निरन्तर कार्येण च श्रान्तः यतिश्रेष्ठोऽयं दृष्टि दोषयुक्तोऽपि पुनरेकं ग्रन्थमरचयत्। अद्यापि (वैदिक् मेथमेटिक) इ. आङ्ग्ल भाषायां सः ग्रन्थः लभ्यते ।
भारतीय संस्कृत्या सह विज्ञान विषये गणितविषये च स्वामिनः योगदान सदृशं वर्तते एतस्य वाक्चातुर्य, मेथाशक्तिम, उन्नतविचारधारा चावलोक्य न केवल भारतीयाः अपि तु विदेशीयाः अपि आकर्षिताः अभवन् ।एतादृशः महापुरुषः क्रि.श.१९६० तमे वर्षे फेब्रुवरि  मासस्य द्वितीय दिनाङ्के परं धाम प्राप्नोत् ।

यथा शिखा मयूराणां नागानां मणयो यथा । तद्वद्वेदाङ्गशास्त्राणां गणितं मूर्धनि स्थितम् ।। Reference