सदस्यः:SANCHITAPANDA123/प्रयोगपृष्ठम्

श्रीमद्भागवत् गीता - श्रीमद्भागवत गीता बस्तुतः महाभारतस्य अंशः अस्ति। अर्जुनः युद्धे आत्मीयान् विलोक्य युद्धविमुखः अभवत्।तदा भगवान् श्रीकृष्णः अर्जुनम् उपदिशति स्म। भगवतः श्रकृष्णस्य उपदेशस्य नाम श्रीमद्भगवद्गीता। श्रीमद्भगवद्गीता उपनिषदां सारः भवति। अत्र अनेके विषयाः सन्ति।प्राधान्येन अस्यां भक्तियोगस्य ज्ञानयोगस्य कर्मयोगस्य च प्रतिपादनं कृतम्। अत्र श्रीमद्भगवद्गीतायां भक्तिज्ञानकर्मयोगां त्रिवेणी प्रवहति।अतः प्रसिद्धं कथनं वर्तते- " गीता सुगिता कर्तव्या किमन्यैः शास्त्रविस्तरैः" प्रत्येकं मानवः सुखं कामयते ।सुखं प्राप्तुं त्रयः मार्गाः निर्दिष्टाः सन्ति भक्तिः ज्ञानं कर्म च।अतः भवतः ज्ञानी कर्मशीलः प्रत्येकं मानवःश्रीमद्भगवद्गीतायाः अध्ययनेन कल्याणं कर्तुं शक्नोति। एषु त्रिषु मार्गेषु अपि कर्मयोगः आधुनिकयुगे सुतरां कल्याणं करोति । कर्मयोगः जीवने संघर्षस्य उपदेशं प्रयच्छति।कर्म मानवस्य धर्मः परं कर्म तदेव कल्याणकरं यस्मिन् फलस्य इच्छा न भवेत्। भगवान् श्रीकृष्णः स्पष्टम् उक्तवान्- "कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।"