क्रियानुसन्धानस्य अर्थः-

विद्यालयीय कार्यप्रणाल्याः परिष्कारार्थं परिवर्तनार्थं च एषः कश्चन महत्वपूर्णः विधिः| एतस्य अनुसारं शिक्षकः स्व शिक्षण समस्याः समाधातुं अस्य प्रयोगं कुरुते| प्रधानाचार्यः विद्यालयीय समस्याः समाधातुं वैज्ञानिकाध्यैनेन तत्र परिवर्तनं सम्पादयति| इयं च क्रियानुसन्धान प्रक्रिया, समस्या केन्द्रिता भवति| शोधकार्य प्रणाल्यां विद्यमान समस्याः समाधाय, तत्र परिवर्तनस्य आनयनं एतस्याः केवलं उद्देश्यं न, अपि तु क्रियानुसन्धानस्य माध्यमेन शिक्षायाः तादृश दैनिक समस्यानां समाधानं अध्यापकः स्व सहयोगिनां सहाय्येन प्रभाविरूपेण प्रस्तौति| एतेन शिक्षां अधिकोपयोगिनीं विधाय शैक्षिक समस्यानां समाधानं वैज्ञानिकरूपेण वस्तुनिष्ठरूपेण प्रभाविरूपेण च प्रस्तूयते|

क्रियानुसन्धास्य परिभाषाः-

किंचिद् महाशयानां मतानुसारेण परिभाषाः सन्ति तद्यथा- 1.(कोरे)- महाशयानुसारं "स्वकार्याणां परिष्कारार्थं कार्यकतृभिः शिक्षायां कृतानुसन्धानमेव क्रियानुसन्धानं" इत्युच्यते| 2.(मौली)- महाभागस्य मतानुसारं "शिक्षकस्य समक्षं उद्भूतासु अनेकाः समस्याः तत्कालमेव समाधेयाः भवन्ति| तात्कालिकसमस्यानां समाधानार्थं कृतानुसन्धानं सामान्यतः शिक्षायां क्रियानुसन्धानमिति अभिज्ञायते" इति| 3.(शिक्षानुसन्धानम्)- इत्यानुसारं - "क्रियानुसन्धानं तादृश किञ्चन अनुसन्धानं यत्र कश्चित् व्यक्तिविशेषः अधिकप्रभावशालिरूपेण स्वीयान् उद्देश्यान् प्राप्तुं शक्नोति" इति| 4.(गुड़)- महाशयानुसारं- "शिक्षकैः निरीक्षकैः प्रशासकैः कृतकार्याणां कृत-निर्णयस्य च गुणात्मकसमुन्नयार्थं क्रियमाणां अनुसन्धानं एव क्रियानुसन्धानम्" इति| 5.(मैक् गेट् तथा अन्ये)- मतानामनुसारेण- "क्रियानुसन्धानं संघटितशोधस्य काचित् क्रिया, यस्याः उद्देशः कस्यचित् एकस्य व्यक्तिविशेषस्य समूहस्य वा क्रियासु परिवर्तनं आनेतुं विकासं च कर्तुं किञ्चन अध्ययनं, इति रचनात्मकं प्रस्तावं प्रस्तौति" इति|

क्रियानुसन्धानस्य महत्वं :-

शिक्षा लोकतन्त्राधारस्य सामाजिक परिवर्तनस्य च एकं शक्तिशालि महत्वपूर्णं च यन्त्रं भवति| यदि लोकतन्त्राधारस्य साफल्यं सम्पादनीयं अस्ति, तर्हि शिक्षा प्रक्रिया सुचारुरूपेण व्यवस्थितरूपेण च सञ्चालनीया वर्तते| परन्तु शिक्षायाः सुचारुरूपेण सञ्चालनं एकं सरलं कार्यं नास्ति| अद्य वयं पश्यामः यत्, शिक्षासम्बद्धाः अनेकसमस्याः प्रगत्यै विद्यालयीय क्षेत्रे क्रियानुसन्धान सम्बद्धानां व्यक्तीनां हस्ते एकं महत्वपूर्णं शक्तिशालि च साधनं वर्तते| -क्रियानुसन्धानस्य उपर्युक्ताः संक्षिप्तरूपरेखाः तस्य महत्वं इत्त्थं प्रकटयन्ति| तद्यथा- 1. विद्यालये क्रियानुसन्धानस्य स्वीकारः 2. एतत् विद्यालये लोकतान्त्रिकमूल्येषु महत्वं कल्पयति| 3. एतत् विद्यालयस्य कार्यप्रणाल्याः रूपरेखायाः संशोधनं परिवर्तनं च करोति| 4. एतत् पाठ्यक्रमं समाजस्य आवश्यकतानुगुणं मूल्यानां अनुकूलनं च निर्माय, समाजस्य दर्पणत्वेन विद्यालयं प्रतिष्ठापयितुं प्रयतते| 5. एतत् विद्यालयस्य यान्त्रिक रूढिवादिवातावरणं समाप्य आधुनिकं समयानुकूलं च वातावरणं निर्मातुं प्रयतते|

क्रियानुसन्धानस्य विकासः-

अस्य शुभारम्भः अमेरिका देशे अभवत्| द्वितीयविश्वयुद्धसमये सर्वप्रथमं "क्रियानुसन्धानम्" इति शब्दस्य प्रयोगः कोलियर् महोदयेन कृतः| तस्य मतानुसारं "यावत् पर्यन्तं सामान्य व्यक्तयः प्रशासनाधिकारिणः अनुसन्धान कार्ये स्वयं भागं ग्रहीष्यन्ति, तावत् पर्यन्तं तेषां परिष्कारः न सम्भवति"| तदनन्तरं लेविन् महाभागेन 1946 तमे वर्षे सामाजिकक्षेत्रे मानवसम्बन्धं समुचितं कर्तुं क्रियानुसन्धानप्रणाल्याः प्रयोगे महत्वं प्रदत्तं| एवं प्रकारेण अन्येपि यथा- राइट् स्टोन्,ब्रेडी,रेविन्सन्,आचार्य प्रो. स्टिफन् एम् कोरे, महाशयाः क्रियानुसन्धान् विषये उक्तवन्तः इति|

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Sastri_Ved_Prakash_Shukla&oldid=461163" इत्यस्माद् प्रतिप्राप्तम्