संग्रामी वीरसुरेन्द्रसायः

परिचयः

ब्रितिशदेशस्योपनिवेशवादनीत्या भातवर्षमतीव शोषितं शासितञ्च। ब्रितिशशासनमसुखकरमनुभवतां व्यस्तानां संग्रामाणां हूतात्मनां भारतीयानां मध्ये सम्बलपुरचॉहानवंशोद्भवः उत्कलीयो वीरसुरेन्द्रसायः स्वाधीनतासंग्रामनभसि उज्ज्वलज्योतिष्करूपेण विभाति। अयं १८०९ मिते ख्रीष्टाब्दे सम्बलपुरमण्डलान्तर्गते खिण्डेति जनपदे जातोऽभूत्। अस्य पिता धर्मसिंहः माता रेवतीदेवी, पितृव्यो बलरामसायः पुत्रो मित्रभानुश्चेति परिवारवर्गाः स्वाधीनता संग्रामिणः आसन्। पितृव्येण बलरामसायेनाह्यं बाल्यशिक्षां राजनीतिकशिक्षां च प्राप।

सिंहासनार्थं युधं

१८२७ मिते ख्रीष्टाब्दे सम्बलपुरस्य अन्तिमराजस्य निःसन्तानस्य माहाराजसायस्य मृत्युकारणात् तस्य विधवां पत्नीं राग्नीं मोहनकुमारीं नाममात्रेण राजपदे उपावेश्य ब्रिटिशसर्वकारो राज्यमशात्। अथ अष्टादशवर्षवयस्कः सुरेन्द्रसाय उत्तराधिकारसूत्रेण सम्बलपुरराजपदवीम् आप्तुमावेदयामास। परन्तु ब्रिटिशसर्वकारेण आवेदनं प्रत्याख्यातमवगम्य आत्मपक्षसैन्यानेकीकृत्य ब्रिटिशवादमपाकर्तुं स युद्धमुद्घोषयत्। सुचतुरस्य रणविद्यानिपुणस्याऽस्य पार्वत्यरण्कॉशले ब्रिटिशसर्वकारो विचलितो बभूव।

कारागृह वासं

सम्बलपुरस्य पश्चिमोत्तरदिशि प्रवहन्त्या महानद्या उपकूले पर्वतानां समाहारः क्रोशं क्रोशं व्यापी नानावृक्षराजिभिराकीर्णो "वारपाहाड" इति पर्वतश्रेणी वर्तते। तत्र "डेब्रिगड" इति प्रधानः प्रसिद्धो गिरिदुर्गोऽस्ति। दुर्गेऽस्मिन् स्थित्वा सुरेन्द्रो ब्रिटिशसॅन्यॅः साकं युयुधे। १८२७ त: १८३३ ख्रीष्टाब्दं यावद् विप्लवाग्निः प्रज्ज्वलितः सर्वकारे विचलितः सन् हजारिबाग-कलिकत्ता चेति स्थानद्वयात् सॅन्यानस्त्राणि चानीय प्रयुक्तवान्। १८४० ख्रीष्टाब्दे सम्बलपुरवुढारजादेहेरिपालि इति स्थाने सुरेन्द्रः सबान्धवो ब्रिटिशसॅन्यॅनिर्गडितः सन् हजारिबाग इति कारागारे कारामवृणात्।

युध्ध निपुणः

अथ भारते सिपाही विद्रोहि मासस्य ३० तारिकायां विप्लविभिर्हजारीबाग इति कारागारः भग्नः। तस्मान् स्थानान्मुक्तः सन् सुरेन्द्रः सहस्त्राधिकं सॅन्यान् संगृह्य डेव्रिगड-झारघट्टसिंहोडाघट्टादिस्थलेषु प्रच्छन्नभावेन स्थित्वा सम्बलपुरराज्यमाप्तुं पुनः अयुध्यत। दुर्द्दान्तं सुरेन्द्रं निगडयितुमसम्भवमवलोक्य अनन्योपायः सर्वकारः कपटमाचचार। "राजसिंहासनं तुभ्यं प्रदास्यते" इति कपट शान्तिप्रस्तावं स्वीकुर्वन्तमागच्छन्तमेकाकिनं सुरेन्द्रं सर्वकारो निगडितवान्। सर्वकारस्येदृशी विश्वासघातकता सर्वत्र परिख्याता। कारागारस्य प्रहरिसाहाय्येन सुरेन्द्रो रात्रावेव मुक्तः। अथ सुरेन्द्रस्य युद्धो भयंकरो बभूव। विप्लविभिब्रिटिशसर्वकारस्य वासभवनं परिध्वस्तम्। दुर्भेद्यदुर्गमवनपर्वतवर्त्मनाहमनं सुरेन्द्रस्य तदीयसॅन्यानां च सुकरम् इरेजिनां तु दुष्करमन्वभूयत।

अत्रान्तरे सिपाहीविप्लवस्य प्रशमनात् भारते शान्तिः प्रतिष्ठापिता। सर्वकारेण भारतस्य विभिन्नस्थानेभ्यः आनीय प्रयुक्तेषु सॅन्येष्वपि सुरेन्द्रोन पराजितः। अस्य "इरेजाः सम्बलपुरं परित्यज्य प्रत्यावर्त्तन्ताम्" इति ध्वनिरासीत्। सर्वकारस्तु सुरेन्द्रम् आत्मोत्सर्गं कारयितुं बारम्बारं वार्तां प्रेरयामास। अस्य सपक्षवादिभिरूदघोषयत् यत् "राज्यप्राप्तिं विजा विप्लवो न प्रशमयिष्यते।" अथ १८६३ मिते ख्रीष्टाब्दो सर्वकारेण सम्बमपुरं कटकाधीनात् नागपुराधीने संयुक्तम्। ततः कमिशनरः "इम्फे" महोदयः पत्रमेकमलिखत् - "सुरेन्द्र ! तुभ्यं राजपदं न मिलिष्यते, तव भ्रातरॉ उदन्तध्रुवॉ पुत्रो मित्रशानुरत्रागत्य आत्मानमर्पयन्तो ग्रामे सुखं वर्त्तन्ते। त्वं तथा आचर। त्वमत्रागत्य साक्षात्करिष्यसि, न वा शीघ्रं विज्ञापय। आत्मसमर्पणेन दण्डो न विधास्यते।"

आत्मसमर्पणं

तदानीं प्रजादमनलीला निष्ठुरं सम्पन्ना भयेन कतिपयाः प्रजा अपि विप्लवान्नवृत्ताः। अथाऽवथामवगम्य सुरेन्द्रः १८६२ ख्रीष्टाब्दास्य मईमासस्याऽन्तिमभागे आत्मानमर्पयामास। फलेन सुरेन्द्रः स्वग्रामसहितेनाऽपरग्रामद्वयस्य राजस्वमुपभुञ्जन् वार्षिकमेकसहस्त्ररूप्यकाणि इति अवसरवृत्तिं, तथा तस्य पुत्रो मित्रभानुरपि ग्रामद्वयस्य राजस्वेन सह चतुरशतविंशरूप्यकाणि चावसरवृत्तिमवाप्नुताम्। उभावपि स्वग्रामे सुखेने अवसताम्।

सुरेन्द्रस्याऽऽत्मासमर्पणादनन्तरन्तु जनतामध्ये शान्तिर्नागता। कतिपयसपक्षवादिभिर्विप्लवोऽव्याहृतोऽभूत्। एतद् दृष्ट्वा कमिशनर "टेम्पल्" महोदयः प्रस्तावितवान् यत् "सुरेन्द्रश्चेत् सम्बम्पुरे स्थास्यति, तर्हि विप्लवः पुनरुज्जीवितो भवितेत्याशंक्य स पुनर्निहडितव्य इति" पुनर्निगड्नेन सुरेन्द्रं प्रति विश्वासघातकता भवितेति विरुध्य चिन्ताज्वरेण "इम्फे" महोदयः पञ्चत्वमुपगतः। अथ सुरेन्द्रं बन्दिनं कारयितुं सुचिन्तिता योजना सर्वकारेण सम्पन्ना। वन्दी भवितेति सूचनामात्रेण सुरेन्द्रो वनं गत्वा पुनः विप्लवं कारयियष्यतीत्याशंक्य अतर्कितमाक्रम्य निगश्येत्। अतः सम्बुलपुरनिवासी द्यानिधिमेहेरो गुप्तचरभावेन निशाद्रव्यविक्रयव्याजेन सुरेन्द्रं निकषा गत्वा तस्य सकलं विषयं सर्वकाराय प्रेर्यामास। ततः एकदा निशाद्रव्यं खादयित्वा अचेतनं सुरेन्द्रं सपरिवारं १८६३ ख्रीष्टाब्दस्य जनवरीमासस्य २३ तारिकायां सर्वकारः निगडितवान्।

सायस्य अन्तः

मुक्तिनिमत्तिं ता २३-८-१८६६ टिकायां सुरेन्द्रस्याऽऽवेदनं प्रत्याख्यातम्। स असुरगड इति कारावासे अन्धः सन् यन्त्रणामनुभवन् १८८४ ख्रीष्टाब्दे मृत्युं ववरे।

स्म्रणार्थं

दीर्घसप्तत्रिंशद्वर्षाणि स कारावरणं कृत्वा भारतस्वाधीनतासंग्रामेतिहासे अग्रगण्यो भवति। तस्य स्मृत्या भुवनेश्वरनगरे वीरसुरेन्द्रसाय इति नगरं वुर्लायां वीरसुरेन्द्रसाय-आयुर्विज्ञानमहाविद्यालयः इति चिकित्सानुष्ठानं च संस्थापितं वर्त्तते। अतस्तस्मॅ स्वाधीनता संग्रामिणे वीरसुरेन्द्रसायाय नमः।