सर्वभूतानि कौन्तेय...

भगवद्गीतायाः श्लोकः ९.७


श्लोकः सम्पादयतु

 
गीतोपदेशः
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य सप्तमः(७) श्लोकः ।

पदच्छेदः सम्पादयतु

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् कल्पक्षये पुनः तानि कल्पादौ विसृजामि अहम् ॥ ७ ॥

अन्वयः सम्पादयतु

कौन्तेय ! कल्पक्षये सर्वभूतानि मामिकां प्रकृतिं यान्ति । पुनः कल्पादौ तानि अहं विसृजामि ।

शब्दार्थः सम्पादयतु

कौन्तेय = कुन्तीपुत्र !
कल्पक्षये = प्रलयकाले
सर्वभूतानि = समस्तभूतानि
मामिकाम् = मदीयाम्
प्रकृतिम् = त्रिगुणात्मिकां प्रकृतिम्
यान्ति = प्राप्नुवन्ति
अहं कल्पादौ = अहं सृष्टिकाले
पुनः = भूयः
तानि = तानि भूतानि
विसृजामि = उत्पादयामि ।

अर्थः सम्पादयतु

हे अर्जुन ! यदा कल्पस्य क्षयः भवति तदा सर्वाण्यपि भूतानि मायारूपां मम शक्तिं प्रविशन्ति, अर्थात् तत्रैव लीयन्ते । यदा पुनः कल्पस्य आरम्भः तदा निलीनानि तानि सर्वाण्यपि भूतानि पुनः अहं सृजामि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सर्वभूतानि_कौन्तेय...&oldid=418869" इत्यस्माद् प्रतिप्राप्तम्