सीकरमण्डलम्
सीकरमण्डलं (हिन्दी: सीकर जिला, आङ्ग्ल: Sikar district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति सीकरनामकं नगरम् ।
सीकरमण्डलम् | |
---|---|
मण्डलम् | |
![]() राजस्थानराज्ये सीकरमण्डलम् | |
Country | भारतम् |
States and territories of India | राजस्थान |
Area | |
• Total | ७,७४२ km२ |
Population (२०११) | |
• Total | २६,७७,७३७ |
Website | http://sikar.nic.in |
भौगोलिकम्संपादित करें
सीकरमण्डलस्य विस्तारः ७७४२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जयपुरमण्डलं, पश्चिमे चुरूमण्डलं, नागौरमण्डलं च, उत्तरे झुञ्झुनुमण्डलं, दक्षिणे जयपुरमण्डलम् अस्ति । अस्मिन् मण्डले ४५९.८ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।
जनसङ्ख्यासंपादित करें
२०११ जनगणनानुगुणं सीकरमण्डलस्य जनसङ्ख्या २,६७७,७३७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३४६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३४६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.०४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४४ अस्ति । अत्र साक्षरता ७२.९८ % अस्ति ।
उपमण्डलानिसंपादित करें
अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि -
- सीकर
- फतेपुर
- लक्ष्मणगढ
- दान्तारामगढ
- नीम का थाना
- श्रीमाधोपुर
वीक्षणीयस्थलानिसंपादित करें
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
- खाटूश्यामजी
- गणेश्वर
- जीणमातामन्दिरम्
- रघुनाथमन्दिरम्
- हर्षनाथमन्दिरम्
- श्रीमानसीदेवीमन्दिरम्
इत्यादीनि ।