रामपाणिवादमहाकविना सप्तभिः अङ्कैः उपनिबद्धं काव्यं भवति सीताराघवम् । मार्ताण्डवर्ममहाराज्ञः (१७५६) सदसि सन्निहितानां मध्ये अवतारणार्थं विरचितं भवति इदं नाटकम् । यागरक्षातः अभिषेकपर्यन्ता कथा एव अत्र उपवर्ण्यते । रसपुष्ट्या शब्दभंग्या च उज्वलं भवति सीताराघवः । अस्य सम्पादनं प्रथमतया केरलसर्वकलाशालातः १९५८ तमे संवत्सरे कृतम् । पुनः अस्य सम्पादनं डो. सि. एम्. नीलकण्ठन्महोदयेन (प्रोफेसर् श्रीशङ्कराचार्य संस्कृतसर्वकलाशाला) २००० तमे संवत्सरे कृतम् ।

"https://sa.wikipedia.org/w/index.php?title=सीताराघवम्&oldid=389144" इत्यस्माद् प्रतिप्राप्तम्