सोमनाथपुरं (Somanathapura) कर्णाटकस्य मैसूरुमण्डले स्थितः प्राचीनः अग्रहारः अस्ति । अत्र १३ शतकीयः प्रसन्नकेशवः अथवा लक्ष्मीकेशवदेवालयः अस्ति । एषः देवालयः विशालः अस्ति । अस्य प्राङ्गणम् २१५ X १७७ पादपरिमितम् अस्ति । प्रवेशाय महाद्वारमस्ति। गर्भगृहं परितः भवनेषु ६४ गुहा इव रचनाः सन्ति । तासु प्रत्येकस्मिन् देवदेवतानां शिल्पं स्यात् इति अभिप्रायः । एषः देवालयः होय्सळशौल्या अस्ति । उन्नतं प्राङ्गणं नक्षत्राकारकम् अस्ति । एषः त्रिकूटाचलः। अस्य आवारेषु स्थितानि शिल्पानि अद्भुतानि मनमोहकानि च सन्ति । देवालये ३ गर्भगृहाणि सन्ति । एकस्मिन् वेणुगोपालः, अन्यस्मिन् जनार्दनः, मध्ये केशवः च सन्ति । प्राचीनः केशवविग्रहः केनचित् चोरितः । इदानीं नूतनविग्रहः स्थापितः अस्ति ।

सोमनाथपुरम्
नगरम्/ग्रामः(अग्रहारः)
सोमनाथपुरे केशवमन्दिरम् (होय्सालशैलि)
सोमनाथपुरे केशवमन्दिरम् (होय्सालशैलि)
Location of सोमनाथपुरम्
राष्ट्रम्  भारतम्
राज्यानि कर्णाटकराज्यम्
मण्डलम् मैसूरुमण्डलम्
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय समान्यकालमनम्)
समीपस्थिम् नगरम् टी. नर्सिपुर

मार्गसूची सम्पादयतु

मैसूरुतः ४२ कि.मी

वसतिः -के.एस्.टि.डि.सि प्रवासिनिलयं , होटेलमयूर , केशव च।

बाह्यानुबन्धाः सम्पादयतु

वीथिका सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सोमनाथपुरम्&oldid=485023" इत्यस्माद् प्रतिप्राप्तम्