सोहनीरागः (Sohni Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । मारवा थाट् गणस्य रागः भवति । "ओडव" तथा "षाडवजात्योः" सहितः रागः भवति । अस्य रागस्य प्रशस्तकालः रात्रौ तृतीयः उत चतुर्थः प्रहरः भवति । अस्मिन् रागे मध्यमस्वरौ भवतः तथापि तीव्रमध्यमस्य स्वरस्य प्राशस्त्यम् अस्ति । तारषड्जः प्रधानः भवति । उत्तराङ्गप्रधानः रागः भवति ।
अन्त्ययामे प्रयोगत्वात् तारषड्जविचित्रता।
संभवेत् तत्र सङ्गीत केन्द्रस्थानं क्रमागतम्॥
ध-ग स्वरौ रसास्वादनस्य स्थाने भवतः । वादिस्वरः धैवतः (ध) भवति । एवं संवादिस्वरः गान्धारः भवति । केचन तारषड्जं वादिस्वरः भवति इति अभिप्रयन्ति । पञ्चमस्वरः अस्मिन् रागे नभवति । हिन्डोल, मारवा, पञ्चमरागाः अस्य रागस्य साम्यरागाः भवन्ति । शृङ्गाररस्य प्रतिपादकः रागः भवति ।

श्लोकः सम्पादयतु

कर्णे दधाना सुरपुष्पगन्धीं वीणाविनोदी कमलायताक्षी।
प्रांशूकुमारी कमनीयमूर्तिः सा शोभिनी कौशिकरागिणीयम्॥
  • आरोहः- स ग म ध नि ध स
  • अवरोहः – स रे स नि ध म ध म ग रे स
  • पक्कड – ग म ध नि स रे – स

समयः सम्पादयतु

मध्यरात्रौ २ तः ४ वादनपर्यन्तं प्रशस्तकालः भवति ।

थाट् सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सोहनीरागः&oldid=369972" इत्यस्माद् प्रतिप्राप्तम्