स्थाने हृषीकेश तव...

(स्थाने हृषीकेश - 11.36 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः

अर्जुन उवाच -

स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ३६ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य षड्त्रिंशत्तमः(३६) श्लोकः ।

पदच्छेदः सम्पादयतु

स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यति अनुरज्यते च रक्षांसि भीतानि दिशः द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥

अन्वयः सम्पादयतु

हृषीकेश ! तव प्रकीर्त्या जगत् प्रहृष्यति अनुरज्यते च । रक्षांसि भीतानि दिशः द्रवन्ति । सर्वे सिद्धसङ्घाः च नमस्यन्ति इति स्थाने ।

शब्दार्थः सम्पादयतु

हृषीकेश = इन्द्रियाधिप !
तव प्रकीर्त्या = ते सङ्कीर्तनेन
जगत् = भुवनम्
प्रहृष्यति = सन्तुष्यति
अनुरज्यते च = त्वयि अनुरक्तं च भवति
रक्षांसि = राक्षसाः
भीतानि = सभयाः
दिशः = दिशाः
द्रवन्ति = पलायन्ते
सर्वे = सकलाः
सिद्धसङ्घाः च = सिद्धसमुदायाः अपि
नमस्यन्ति = प्रणमन्ति
इति स्थाने = इत्येतत् समुचितम् ।

अर्थः सम्पादयतु

कृष्ण ! तव सङ्कीर्तनेन जगत् सन्तुष्यति त्वयि अनुरक्तं च भवति । राक्षसाः भीताः सन्तः दिशः पलायन्ते । सर्वे सिद्धसमुदायाः अपि प्रणमन्ति इत्येतत् सर्वं युक्तम् ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=स्थाने_हृषीकेश_तव...&oldid=418885" इत्यस्माद् प्रतिप्राप्तम्