हनुमन्नाटकं रामायणस्य कथाधारितं किञ्चन महानाटकं वर्तते। अत्र वाल्मीकिरामायणात् केचन प्रसङ्गाः भिद्यन्ते।हनुमन्नाटकस्य स्थिता कीर्तिः समस्तं मध्यकालकवित्वं प्रतिनिधत्ते, यया समावर्जितो महाकविः श्रीतुलसीदासो बहुशस्तद्भावान् अनुगृह्य रसप्रचुरान् प्रसङ्गान् निबध्नाति स्म।

हनुमन्नाटकम्  
Hanuman finds Sita in the ashoka grove, and shows her Rama's ring.jpg
हनुमतः अशोकवाटिकागमनम्
लेखकः अज्ञातः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

कालःसम्पाद्यताम्

नाटकमिदं ८०० स्त्रीष्टाब्दमभितः पुस्तकरूपेण प्रतिष्ठितमासीदिति मन्यते, यतो हि नामास्मिन्नाटके भवभूतेः प्रभावो परिलक्ष्यते, दशरूपकस्य अवलोकटीकायाम् अस्योदाहरणानि नाम्ना संगृहीतानि।[१] भवभूतिः ७०० ख्रीष्टाब्दमभितः प्रादुर्बभूव, अवलोकटीका च १००० ख्रीष्टाब्दमभितः प्रणीता । तयोर्मध्ये प्रणीतमिदम् । अत एव भोजप्रबन्धादौ हनुमन्नाटकस्य कालविषये किवदन्तीनां निस्सारता प्रतिभाति ।

महानाटकम्सम्पाद्यताम्

पश्चात्तेभ्योऽपि रामविषयक-श्रेष्ठनाटकेभ्य उत्तमश्लोका नाटकेऽस्मिन् बहुशः समावेशिता इत्यनेन विधिनास्य महानाटकत्वं प्रसाधितम्।[२] अपरथा अपीदं नाटकं रामस्य समग्रचरित्रस्य वर्णनेन किञ्चिद् बृहत्तरं स्वरूपं विदधन्महानाटकं नाम सार्थकं विधत्ते।[३]

नामान्तराणि, इतिहासश्चसम्पाद्यताम्

हनुमतः प्रकर्ष-प्रधानत्वेनेदं नाटकं हनुमन्नाटकमिति प्रसिद्धम् । 'सुभद्रानाटिका' 'कुवलयावली' प्रभृतीनि रूपकाणि इतराण्यपि नायकनाम्ना संज्ञितानि। ‘हनुमन्नाटक'-नाम्नास्य रूपकस्य दशाङ्कात्मकं वङ्गीयं संस्करणं, दामोदरमिश्रेण सम्पादितं च पश्चिमभारते प्रचलितं चतुर्दशाङ्कसंवलितं महानाटक-नाम्नेति संस्करणद्वयं विद्यते । केचन पुनरिदं नाटकं 'छायानाटकम्' इत्यपि वदन्ति यतो हि नामास्य दशम-द्वादशयोः अङ्कयोः सीतारामौ मायारूपौ वर्णितौ।

विषयवस्तुसम्पाद्यताम्

अस्मिन्नाटके रङ्गमञ्चीयाभिनवा शैली दृश्यते, यत्र कोऽपि निवेदक एव उपस्थाय संवादविहीनानि कथ्यानि क्वचिन्निवेदयति । एवंविधानि रूपकाणि महाराष्ट्रेषु प्रचलितानि 'निवेदन' नाम्नाधुनापि व्यवहृतानि । अन्यत्र संवादा अपि समुपलभ्यन्ते । विण्टरनित्स-महोदयस्य मतमस्ति यद् "इयं कृतिः महाकाव्यनाटकयोः मध्ये तिष्ठति, यत्र महाकाव्योचितानि आख्यानानि नाट्योचिताश्च संवादाः ग्रथिताः" इति।

हनुमन्नाटके अनेकत्र रामायणस्य कथावस्तु परिवर्त्त्य कतिपय-विशेषाः समाकलिताः। सीतास्वयंवरकाले रावणस्य पुरोहितो जनकमुपगम्य रावणाय स्वतनयां सम्प्रदातुं प्रास्तौद्, रामं च सीता-विवाहान्न्यवारयत् । यदा जनकराजो धनुः अधिज्यं कर्तुं स्वसमयं न्यवेदयत्, तदा पुरोधाः शिवचापं रावणो न्यक्कर्तुं नैच्छदिति कैतवं पुरश्चकार । कथाभागोऽयम् अन्यथाकृत्याः अत्र नाटके निवेशितः । जामदग्न्यस्य (रामस्य) समागमे संवादादयोऽपि नैव रामायणपरम्परां सर्वभावेन समनुसरन्ति । सीताया रामेण सम्भोगवर्णनमपि न तथा चरित्रगतम् औदार्यम् आवहति, यथा वाल्मीकिधारायाम् औचित्यं प्रख्यापयेत् । मेघनादेन कृतो मायासीतायाः शिरश्छेदो रामस्य, रावणेन कृतश्च रामस्य शिरश्छेदः सीताया मूच्छहेतू अभवताम्। मायारामेण मायारावणशिरश्छेदान् पश्यन्ती सीता मायारामम् आश्लेष्टुमुद्यताभूत्, तदा स पलायितः इत्यादयः कथापरिवर्त्ता ग्रन्थत एव अवसेयाः । रणे मृतः स्वर्गं गच्छेयं, सीतां वा प्रत्यावर्त्तयेयम् इति रावणेन पृष्टा मन्दोदरी क्षत्रियां मामेव युद्धाय देवः अनुजानातु इति यद् उदाजहार, तत् कामपि नवां विच्छित्तिम् आतनोति ।

हनूमतो महामहिमचरित्रं तावन्मनो हरति —

पीतो नाम्बुनिधिर्न कौणपपुरी निष्पिष्य चूर्णीकृता,

नानीतानि शिरांसि राक्षस-पतेर्नानायि सीता मया।

आश्लेषार्पण-पारितोषिकमहं नार्हामि वार्ताहरो,

जल्पन्नित्यनिलात्मजः स जयति व्रीडा-जडो राघवे॥[४]

अयमेव महिमा येन नाटकस्य नाम-सार्थक्यम् । रचयितुः अस्य काव्यकौशलं रावणानुभावकलनेऽपि सहृदयान् आवर्जयति -

प्रतापं संसोढुं रविरपि दशास्यस्य न विभु-

र्निमज्जत्युन्मज्जत्यपरजलधौ पूर्व-जलाधौ ।

हरिः शेते वार्धौ, निवसति हिमाद्रौ पुरहरो

विरञ्चिः किञ्चापि स्वजनि-कमलं मुञ्चति न चा ॥

रविसहितां देवचतुष्टयीं बिभीषापराधीनां कुर्वाणो रावणो येन समूलघातं हतः, तस्य रामचन्द्रस्य सर्वातिशायिनं महिमानं गातुकाम एव कविस्तथा वर्णयांबभूव। रसनिर्वाहनैपुणं नैव जहाति कविवाचम् । चक्रवाक्यां रौद्र-करुणाभासयोश्चित्रम् उदाह्रियते -

एकेनाक्ष्णा प्रविततरुषा वीक्षते व्योमसंस्थं

भानोर्बिम्बं, सजललुलितेनापरेणात्मकान्तम्।

अह्नश्छेदे दयित-विरहाशङ्किनी चक्रवाकी

द्वौ संकीर्णौ विसृजति रसौ रौद्र-कारुण्य-संज्ञौ।[५]

अलङ्कारेषु सुतरां निबद्धेषु उपमा कस्य न मनो द्रावयति विप्रलम्भ-रस-स्यन्दं विकिरती समुच्चयं चाविष्कुर्वती -

चन्द्रश्चण्डकरायते मृदुततिर्वातोऽपि वज्रायते

माल्यं सूचिकुलायते मलयजालेपः स्फुलिङ्गायते।

रात्रिः कल्पशतायते विधिवशात् प्राणोऽपि भारायते

हा हन्त प्रमदावियोगसमयः संहारकालायते।।[६]

कथम्भूतो राजाभिमतो नाट्यकृतः -

उत्खातान् प्रतिरोपयन् कुसुमितांश्चिन्वँल्लघून् वर्धयन्

क्षुद्रान् कण्टकिनो बहिर्निरसयन् विश्लेषयन् संहतान्।

अत्युच्चान् नमयन् नतांश्च शनकैरुन्नामयन् भूतले

मालाकार इव प्रयोगचतुरो राजा चिरं नन्दति ॥ [७]

सम्बद्धाः लेखाःसम्पाद्यताम्

उद्धरणानिसम्पाद्यताम्

  1. हनुमान् स्वयमेवास्य नाटकस्य प्रणेतेति किंवदन्ती रूपकस्यास्य लोकनाटकत्वं प्रसाधयति ।
  2. सर्ववृत्तिविनिष्पन्नं सर्वलक्षणसंयुतम्। समग्रं तत्प्रतिनिधिं महानाटकमुच्यते । भावप्रकाशने एतदेव यदा सर्वैः पताकास्थानकैरेयुतम्। अङ्कैश्च दशभिर्धीरा महानाटकमूचिरे । साहित्यदर्पणे ६.२२३
  3. नाटकेषु नायकस्य नैकचारितानामितिहासवद्वर्णनं योरपीय-रूपकेष्वपि वर्तते । तथा हि टामस हार्डी महोदयस्य Dynasts इति Epic Drama भागत्रये विभक्तं चिरव्यापि नैपोलिमनस्य चरितं नवाङ्कः १३० दृश्यैश्च प्रस्तौति ।
  4. ६°३६
  5. १२.१७
  6. ५.२६
  7. ९.३५
"https://sa.wikipedia.org/w/index.php?title=हनुमन्नाटकम्&oldid=429818" इत्यस्माद् प्रतिप्राप्तम्