हरिस्वामी उव्वटस्य पूर्ववर्ती आसीत्। सः सम्पूर्णशतपथब्राह्मणस्य भाष्यमरचयत्। पराशरगोत्रीयस्य नागस्वामिनः पुत्रोऽयम् अवन्तिनृपतेः विक्रमस्य धर्माध्यक्षः आसीत्। सौभाग्येनास्य लिखिते भाष्ये भाष्यरचनाकालस्य निर्देशोऽपि प्राप्यते। तदनुसारेणास्य भाष्यस्य निर्माणकालः ३७४० कलिवर्षः अर्थात् ख्रीष्टस्य ५३८ ईशवीयः अासीत्। अनेन सिद्धो भवति यदयं विक्रमस्य षष्ठशतके विद्यमानः आसीत् इति। एतस्य गुरोः नाम स्कन्दस्वामी आसीत्।

भाष्यम् सम्पादयतु

शतपथब्राह्मणस्य भाष्यम् अनेन लिखितम्॥ एतस्य समयः सप्तमशतकमिति निश्चित्य वक्तुं शक्यते । यतो हि स्वयं हरिस्वामिना उपपत्तिक्रमेण शतपथब्राह्मणस्य प्रारम्भे स्कन्दस्वामिनं निजगुरुं स्वीकृत्य स्वपरिचयञ्च दत्तम्।

'नागस्वामी तत्र..............श्रीमुहस्वामिनन्दनः ।

तत्र याजी प्रमाणयज्ञ आढ्यो लक्ष्म्या समेधितः ॥ ५ ॥

तन्नन्दनो हरिस्वामी प्रस्फुरद् वेदवेदिमान् ।

त्रयी व्याख्यानधौरेयोऽधीततन्त्रो गुरोर्मुखात् ॥ ६ ॥

यः सम्राट् कृतवान् सप्तसोमसंस्थास्तथार्कश्रुतिम् ।

व्याख्यां कृत्वाऽऽध्यापयन्मां श्रीस्कन्दस्वाम्यस्ति मे गुरुः ॥ ८ ॥

हरिस्वामी स्वभाष्यरचनायाः समयोऽपि दत्तवान् । निदर्शनं यथा —

'यदाब्दानां कलेर्जग्मुः सप्तत्रिंशत्शतानि वै ।

चत्वारिंशत्समाश्चान्यास्तदा भाष्यमिदं कृतम् ॥'

स्कन्दस्वामिनः कालः प्रायः ६८२ विक्रमाब्दस्तथा ६२५ ख्रीष्टाब्दः सिद्धो भवति । हरिस्वामिनः भाष्यरचनाकालः ६३८ ई. इति मन्यते । यतो हि हरिस्वामी स्वभाष्यरचनायाः समयोऽपि दत्तवान् । निदर्शनं यथा —

'यदाब्दानां कलेर्जग्मुः सप्तत्रिंशत्शतानि वै ।

चत्वारिंशत्समाश्चान्यास्तदा भाष्यमिदं कृतम् ॥'

कलियुगे ३७४० वर्षे व्यतीते सति हरिस्वामिना भाष्यमिदं कृतम् । कलियुगस्य प्रारम्भः विक्रमाब्दात् ३०४५ वर्षं पूर्वं मन्यते। अर्थात् ख्रीष्टाब्दात् पूर्वमयं कालः ३१०२ ईशवीयो भवति । तेन हरिस्वामी ३७४०-३०४५= ६९५ विक्रमाब्दे अर्थात् ६३८ ख्रीष्टाब्दे शतपथब्राह्मणस्य भाष्यं रचयामास । पूर्वमस्मादेव स्कन्दस्वामिना ऋग्वेदभाष्यस्य रचना कृता तथा हरिस्वामिनं वेदमपि अध्यापितम् । 

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=हरिस्वामी&oldid=473872" इत्यस्माद् प्रतिप्राप्तम्