न तु मां शक्यसे द्रष्टुम्...

(११.०८ न तु मां शक्यसे... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ८ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य अष्टमः(८) श्लोकः ।

पदच्छेदः सम्पादयतु

न तु मां शक्यसे द्रष्टुम् अनेन एव स्वचक्षुषा दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥ ८ ॥

अन्वयः सम्पादयतु

अनेन स्वचक्षुषा एव मां द्रष्टुं न शक्यसे । ते दिव्यं चक्षुः ददामि । ऐश्वरं मे योगं पश्य ।

शब्दार्थः सम्पादयतु

अनेन = एतेन
स्वचक्षुषा एव = स्वनेत्रेण एव
मां द्रष्टुम् = माम् अवलोकितुम्
न तु शक्यसे = न समर्थः भवसि
ते = तुभ्यम्
दिव्यम् = अलौकिकम्
चक्षुः = नेत्रम्
ददामि = यच्छामि
ऐश्वरम् = ईश्वरसम्बन्धि
मे योगम् = मम सामर्थ्यम्
पश्य = अवलोकय ।

अर्थः सम्पादयतु

एतेन नेत्रेण एव मां द्र्ष्टुं त्वं समर्थः न भवसि । अतः तुभ्यम् अलौकिकं नेत्रं यच्छामि येन ईश्वरस्य मम असाधारणं सामर्थ्यं पश्य ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु