सुदुर्दर्शमिदं रूपं...

(११.५२ सुदुर्दर्शमिदं रुपं... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः

श्रीभगवानुवाच -

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य द्विपञ्चाशत्तमः(५२) श्लोकः ।

पदच्छेदः सम्पादयतु

सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यत् मम देवाः अपि अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥

अन्वयः सम्पादयतु

सुदुर्दर्शं यत् इदं मम रूपं दृष्टवान् असि अस्य रूपस्य देवाः अपि नित्यं दर्शनकाङ्क्षिणः ।

शब्दार्थः सम्पादयतु

सुदुर्दर्शम् = दुरवलोकम्
मम यत् इदम् = मे यत् एतत्
रूपम् = स्वरूपम्
दृष्टवान् असि = अवलोकितवान् असि
अस्य = एतस्य
रूपस्य = आकारस्य
देवाः अपि = सुराः अपि
नित्यम् = सततम्
दर्शनकाङ्क्षिणः = ईक्षणासक्ताः ।

अर्थः सम्पादयतु

मम यद् रूपम् अधुना त्वं दृष्टवान् अस्ति एतत् अतीव दुरवलोकम् । मदीयम् एतत् रूपं द्र्ष्टुं देवाः अपि सर्वदा आकाङ्क्षिणः भवन्ति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सुदुर्दर्शमिदं_रूपं...&oldid=418882" इत्यस्माद् प्रतिप्राप्तम्