समं पश्यन्हि सर्वत्र...

(१३.२८ समं पश्यन् इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ २८ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य अष्टाविंशतितमः(२८) श्लोकः ।

पदच्छेदः सम्पादयतु

समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् न हिनस्ति आत्मना आत्मानं ततः याति परां गतिम् ॥ २८ ॥

अन्वयः सम्पादयतु

सर्वत्र समवस्थितम् ईश्वरं समं पश्यन् हि आत्मना आत्मानं न हिनस्ति ततः परां गतिं याति ।

शब्दार्थः सम्पादयतु

समवस्थितम् = विद्यमानम्
ईश्वरम् = परमात्मानम्
आत्मना = स्वेन
आत्मानम् = स्वम्
न हिनस्ति = न पीडयति
पराम् = प्रकृष्टाम्
गतिम् = स्थितिम् (मोक्षम्)
याति = गच्छति ।

अर्थः सम्पादयतु

सर्वेषु प्राणिषु वर्तमानम् इमं परमात्मानं यः समभावेन पश्यति सः नहि आत्मना आत्मानं हिंसितुं प्रभवति, भेदाभावात् । तादृशः भेदज्ञानरहितः मुक्तिं प्राप्नोति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु