द्वाविमौ पुरुषौ लोके...

भगवद्गीतायाः श्लोकः १५.१६
(१५.१६ द्वाविमौ पुरुषौ…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य षोडशः(१६) श्लोकः ।

पदच्छेदः सम्पादयतु

द्वौ इमौ पुरुषौ लोके क्षरः च अक्षरः एव च क्षरः सर्वाणि भूतानि कूटस्थः अक्षरः उच्यते ॥ १६ ॥

अन्वयः सम्पादयतु

लोके क्षरः च अक्षरः एव च (इति) इमौ पुरुषौ द्वौ । सर्वाणि भूतानि क्षरः कूटस्थः अक्षरः उच्यते ।

शब्दार्थः सम्पादयतु

क्षरः = विनाशी
अक्षरः = अविनाशी
भूतानि = विकारजातानि
कूटस्थः = शिलाराशिः इव स्थितः ।

अर्थः सम्पादयतु

अत्र लोके क्षरः अक्षरः चेति द्वौ पुरुषौ स्तः । तत्र क्षरः पुरुषो नाम महदादिः भूतान्तः सर्वोऽपि कार्यरूपः राशिः । स च विनाशी । अक्षरः मायाशब्देन या व्यवह्रियते सा प्रकृतिः । अयं निर्विकारत्वेन स्थितः कारणभागः ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु