निर्मानमोहा जितसङ्ग...

भगवद्गीतायाः श्लोकः १५.५
(१५.५ निर्मानमोहाजितं…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ ५ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य पञ्चमः(५) श्लोकः ।

पदच्छेदः सम्पादयतु

निर्मानमोहाः जितसङ्गदोषाः अध्यात्मनित्याः विनिवृत्तकामाः द्वन्द्वैः विमुक्ताः सुखदुःखसञ्ज्ञैः गच्छन्ति अमूढाः पदमव्ययं तत् ॥ ५ ॥

अन्वयः सम्पादयतु

निर्मानमोहाः जितसङ्गदोषाः अध्यात्मनित्याः विनिवृत्तकामाः सुखदुःखसञ्ज्ञैः द्वन्द्वैः विमुक्ताः अमूढाः तत् अव्ययं पदं गच्छन्ति ।

शब्दार्थः सम्पादयतु

निर्मानमोहाः = मोहाभिमानविवर्जिताः
जितसङ्गदोषाः = विगतासक्तिकल्मषाः
अध्यात्मनित्याः = आत्मध्यानपरायणाः
विनिवृत्तकामाः = अपगतवाञ्छाः
सुखदुःखसञ्ज्ञैः = सुखदुःखनामकैः
अमूढाः = विवेकिनः
अव्ययम् = अविनाशि ।

अर्थः सम्पादयतु

येषाम् अभिमानः नास्ति मोहश्च, येषु विषयासक्तिरूपं कश्मलं नास्ति, ये सर्वदा आत्मध्याने रताः सन्ति, येषां विषयेषु तृष्णा नास्ति, ये शीतोष्णयोः सुखदुःखयोश्च निर्विकाराः ते एव धीराः इमम् अश्वत्थवृक्षं विनाश्य तदव्ययं पदं प्राप्तुम् अर्हन्ति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=निर्मानमोहा_जितसङ्ग...&oldid=418644" इत्यस्माद् प्रतिप्राप्तम्