विधिहीनमसृष्टान्नं...
(१७.१३ विधिहीनमसृष्टान्नं इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
- श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १३ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य त्रयोदशः(१३) श्लोकः ।
पदच्छेदः
सम्पादयतुविधिहीनम् असृष्टान्नं मन्त्रहीनम् अदक्षिणम् श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१७.१३॥
अन्वयः
सम्पादयतुविधिहीनम् असृष्टान्नं मन्त्रहीनम् अदक्षिणं श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ।
शब्दार्थः
सम्पादयतु- विधिहीनम् = अशास्त्रसम्मतम्
- असृष्टान्नम् = अदत्तान्नम्
- मन्त्रहीनम् = मन्त्रशून्यम्
- अदक्षिणम् = दक्षिणाविरहितम्
- श्रद्धाविरहितम् = अनासक्तिसहितम्
- तामसम् = तमस्सम्बन्धिनम्
- परिचक्षते = कथयन्ति ।
अर्थः
सम्पादयतुयः यज्ञः शास्त्रसम्मतो न विद्यते, यत्र अन्नं परेभ्यः न दीयते, यत्र स्वरादिशुद्धः मन्त्रः नास्ति, यत्र दक्षिणा अपि नास्ति, यश्च अश्रद्धया क्रियते सः तामसः इति कथ्यते ।