१८६५
१८६५ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।
घटनाः
सम्पादयतुजनवरी-मार्च्
सम्पादयतुएप्रिल्-जून्
सम्पादयतुजुलै-सेप्टेम्बर्
सम्पादयतुअक्टोबर्-डिसेम्बर्
सम्पादयतुअज्ञाततिथीनां घटनाः
सम्पादयतु- अस्मिन् वर्षे जर्मनीदेशीयः सस्यविज्ञानी जूलियट् फान् स्याक्स् नामकः सस्यकोशेषु "पत्रहरित्" इत्यस्य केन्द्रं संशोध्य तस्य "क्लोरोफ्लास्ट्" इति नामकरणम् अकरोत् ।
- अस्मिन्नेव वर्षे लण्डन्नगरस्य "किङ्ग्स्" महाविद्यालयस्य वैद्यालये विश्वे एव प्रथमवारं प्रशिक्षिताः सेवकाः कार्यार्थं नियोजिताः ।
- अस्मिन् वर्षे रोगनिरोधकक्रमस्य अन्वेषकः लूयीस् पाश्चर् फ्रान्स्देशं गत्वा रोगकारणां ब्याक्टीरियाणां मारणपद्धतिं पाठितवान् ।
- अस्मिन् वर्षे पूतिनाशकस्य प्रवर्तकः जोसेफ् लिस्टर् शस्त्रचिकित्सायाः प्रकोष्ठे कार्बालिक् आम्लस्य सेचनं, शस्त्रचिकित्सायाः उपकरणानि कार्बालिक् आम्ले निमज्ज्य एव उपयोगः, शस्त्रचिकित्सायाः कर्तृभिः, साहाय्यकैः च कार्बालिक् आम्लेन हस्तस्य प्रक्षालनम् इत्यादीन् क्रमान् आरब्धवान् ।
- अस्मिन् वर्षे उन्नतकूर्दने माइक एफ् स्वीने नामकः ६' ५ ५/४" मानेनोच्चैः कूर्दनेन कीर्तिमानमस्थापयत् । एतेन सहैवायं स्वीने एकां नवीनामुन्नतकूर्दनस्य पद्धतिमपि पुरस्कृतवान् या हि 'इस्ट्रनरोल्’ नाम्ना विख्याताऽस्ति । तत्पूर्वं सर्वेऽपि कूर्दनकर्तारः 'सीजर-विधेः’ प्रयोगं कुर्वन्ति स्म ।