परस्तस्मात्तु भावोऽन्यो...

(८.२० परस्तस्मात्तु भावो.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य विंशतितमः (२०) श्लोकः । '

पदच्छेदः सम्पादयतु

परः तस्मात् तु भावः अन्यः अव्यक्तः अव्यक्तात् सनातनः यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥

अन्वयः सम्पादयतु

तस्मात् अव्यक्तात् परः यः अन्यः अव्यक्तः भावः (सः) तु सनातनः । सः सर्वेषु भूतेषु नश्यत्सु न विनश्यति ।

शब्दार्थः सम्पादयतु

तस्मात् = पूर्वोक्तात्
अव्यक्तात् = कारणीभूतात् प्रजापतेः
परः = कारणत्वात् उत्कृष्टः
यः अन्यः = यः विलक्षणः
भावः = पदार्थः
अव्यक्तः = इन्द्रियागोचरः
(सः) सनातनः = सः चिरन्तनः
सः = स एषः
सर्वेषु = निखिलेषु
भूतेषु = भूतग्रामेषु
नश्यत्सु = विनाशं गतेषु
न विनश्यति = नैव नाशं प्राप्नोति ।

अर्थः सम्पादयतु

स्थावरजमानां सर्वेषामपि पदार्थानाम् उत्पत्तौ कारणीभूतः यः अव्यक्तः प्रजापतिः वर्तते तस्यापि कारणीभूतः कश्चित् पदार्थो वर्तते । तदेव ब्रह्म । तच्च सर्वदा भवम् । तच्च ब्रह्म पदार्थान्तरेषु नाशं गतेष्वपि न नश्यति, उत्पद्यमानेष्वति नोत्पद्यते ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु