परं भूयः प्रवक्ष्यामि...

(14.1 परं भूयः प्रवक्ष्यां….. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः

श्रीभगवानुवाच-

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ १ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य प्रथमः(१) श्लोकः ।

पदच्छेदः सम्पादयतु

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् यत् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतः गताः ॥ १ ॥

अन्वयः सम्पादयतु

भूयः परं ज्ञानानाम् उत्तमं ज्ञानं प्रवक्ष्यामि । सर्वे मुनयः यत् ज्ञात्वा इतः परां सिद्धिं गताः ।

शब्दार्थः सम्पादयतु

परम् = अन्यत्
ज्ञानानाम् = ज्ञानेषु
उत्तमम् = प्रकृष्टम्
प्रवक्ष्यामि = कथयामि
इतः = अस्मात् संसारात्
परां सिद्धिम् = मोक्षम्
गताः = प्राप्तवन्तः ।

अर्थः सम्पादयतु

अन्यदपि पुनः ज्ञानेषु उत्तमं ज्ञानं ते कथयामि, यत् ज्ञात्वा मुनयः अस्मात् संसारात् मोक्षं प्राप्तवन्तः ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु