इदं ज्ञानमुपाश्रित्य...

(14.2 इदं ज्ञानमुपाआश्रित्य….. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य द्वितीय:(२) श्लोकः ।

पदच्छेदः सम्पादयतु

इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः सर्गे अपि न उपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥

अन्वयः सम्पादयतु

इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः सर्गे अपि न उपजायन्ते प्रलये च न व्यथन्ति ।

शब्दार्थः सम्पादयतु

ज्ञानम् = ब्रह्मज्ञानम्
उपाश्रित्य = अवलम्ब्य
साधर्म्यम् = स्वरूपम्
आगताः = प्राप्ताः
सर्गे = सृष्टिकाले
उपजायन्ते = उत्पद्यन्ते
प्रलये = सर्गप्रलये
व्यथन्ति = बाधां प्राप्नुवन्ति ।

अर्थः सम्पादयतु

एतत् ब्रह्मज्ञानम् अवलम्ब्य मम स्वरूपं प्राप्ताः सृष्टिकाले अपि न उत्पद्यन्ते प्रलयकाले अपि बाधां न प्राप्नुवन्ति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु