माण्डूक्योपनिषत्

प्रमुखासु दशसु उपनिषत्सु अन्यतमा वर्तते माण्डूक्योपनिषत् (Mandukyopanishat) । इयम् उपनिषत् अथर्ववेदे अन्तर्भवति । अस्याम् उपनिषदि १२ मन्त्राः विद्यन्ते । क्षराक्षरवस्तुनिर्देशरूपस्य ओङ्कारस्य व्याख्यानमेव अत्र प्रमुखः उद्देशः । अतः तस्य उपव्याख्यानम् तन्नाम ओङ्कारस्य उपव्याख्यानम् इति आरम्भवाक्ये एव निर्दिष्टं वर्तते । माण्डूक्योपनिषदि आत्मा, तस्य चतस्रः अवस्थाः, आत्मनिर्देशः ओङ्कारः इत्येते विषयाः प्रस्तुताः सन्ति । ग्रन्थविषयाः महत्त्वपूर्णाः, व्यापकाः, कठिनाश्च वर्तन्ते । तथापि अत्रत्या प्रतिपादनशैली सरला सुलभा च वर्तते । अस्याम् आत्मा ब्रह्म इत्येतौ शब्दौ आत्यन्तिकसत्यमित्यर्थे निर्दिष्टौ स्तः । आत्यन्तिकसत्यस्य संक्षिप्तपरिचयं कारयित्वा तस्य सत्यस्य निर्देशमन्त्रस्य ओङ्कारस्य उपदेशं कृतवन्तः सन्ति उपनिषत्काराः ।

(अधिकवाचनाय »)