निरुक्तम्
शिक्षा, व्याकरणं, छन्द:, निरुक्तं, ज्योतिषं, कल्प: इति वेदस्य षडङ्गानि । तत्र ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते इति कथनात् निरुक्तस्य प्रामुख्यं ज्ञायते ।निघण्ट्वाख्यस्य वैदिककोशस्य भाष्यरूपमस्ति निरुक्ताख्यं वेदांगम् । निघण्टौ तु केवलं वैदिकाः शब्दाः परिगणिताः सन्ति, परन्तु निरुक्तकारो यास्कः तेषां वैदिकानां शब्दानां सविस्तरं विवेचनं करोति । अर्थात् निरुक्तनामके ग्रन्थे वैदिकशब्दानाम् अर्थज्ञानस्य प्रक्रिया वर्णिता अस्ति । निघण्टोः पञ्चाध्यायानां विवेचनं स्वकीये निरुक्तग्रन्थे यास्केन द्वादशाध्यायेषु सम्पादितमस्ति ।
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः ।
ज्योतिषामयनं चैव वेदाङ्गानि षडेव तु ॥२॥
(अधिकवाचनाय »)
|