अक्कमहादेवी (ಅಕ್ಕ ಮಹಾದೇವಿ)(११३० - ११६०) कर्णाटके द्वादशशतके सम्पन्नस्य वीरशैवभक्ति-आन्दोलनस्य प्रमुखा व्यक्तिः । तया कन्नडभाषया लिखितानि वचनानि कन्नडभक्तिसाहित्याय दत्तानि अत्युत्तमानि उपायनानि । तया आहत्य ४३० वचनानि लिखितानि । बसवेश्वर, चेन्नबसवण्ण, किन्नरि बोम्मय्य, सिद्धराम, अल्लमप्रभु, दासिमय्य इत्यादयः वीरशैवशरणाः सर्वे ताम् आदरेण 'अक्क' (अग्रजा) इति निर्दिशन्ति स्म इत्येतदेव द्योतयति तस्याः महिमानम् । कर्णाटकेतिहासे सा अत्यन्तं प्रभाविनी प्रेरणादात्री महिला वर्तते । सा परमेश्वरं शिवं (चेन्नमल्लिकार्जुनः) एव पत्युः रूपेण अङ्गीकृतवती, या च माधुर्यभक्तिः मधुरभावः इति मन्यते ।

अक्कमहादेवी
जन्म c. 1130s Edit this on Wikidata
Udutadi Edit this on Wikidata
मृत्युः 12 century Edit this on Wikidata (आयुः −२९)
वृत्तिः दार्शनिक, कविः, साहित्यकारः&Nbsp;edit this on wikidata
जन्मस्थले उडुतडीग्रामे प्रतिष्ठापिता अक्कमहादेव्याः मूर्तिः
अक्कमहादेव्या रचितं किञ्चन प्रसिद्धं वचनम्

जन्म बाल्यं च

सम्पादयतु

कर्णाटकस्य वीरशैवजङ्गमभक्ताः शरणाः इति कथ्यन्ते । तादृशेषु शिवशरणेषु सती महादेवी एव अक्कमहदेवी इति प्रसिद्धा । द्वादशे शतके निर्मलशेट्टीसुमत्योः पुत्री, कर्णाटकराज्यस्य बनवासीप्रदेशस्य बळ्ळीगावे समीपस्थे उडुतडीग्रामे ११३० तमे वर्षे जन्म प्राप्तवती । महादेव्याः मातापितरौ जैनमतावलम्बिनौ अनन्तरं शिवशरणौ जातौ आस्ताम् । एतयोः अपत्यानि न आसन्, मरुळसिद्धेश्वरशरणस्य अनुग्रहेण एका शिशुः जाता । तस्याः नाम एव महादेवी। मरुळसिद्धेश्वरशरणस्य कृपाकटाक्षतः एतस्याः कुटुम्बीयाः श्रीशैलचेन्नमल्लिकार्जुनस्य भक्ताः अभवन् । महादेव्याः विषये अधिकाः विषयाः न प्राप्ताः चेदपि मरुळसिद्धेश्वरशरणस्य प्रभावतः लिङगपूजायाम् आसक्तिः उत्पन्ना इति ज्ञायते । किन्तु गुरुलिङगदेवः इति कश्चित् शरणः काले काले गुरुस्थाने स्थित्वा मार्गदर्शनं कृतवान् ।

वैराग्यम्

सम्पादयतु

गुरुलिङगदेवस्य कारणेन महादेवी विरागिणी जाता । आचारमती, शीलवती, विचारवती महादेवी कथं संस्कारेण विना विरागिणी, शिवस्य भक्ता च जाता इत्येव आश्चर्यकरम् । एषः दैवयोगः इति वक्तुं शक्यः । बसवेश्वरेण कृताः धार्मिककार्यक्रमाः महादेव्याः तारुण्ये बहु प्रभावम् अजनयन् । अतः बसवण्णे तस्यां भ्रातृत्वभावः,गौरवं, प्रीतिश्च आसीत् । शिवशरणानां मर्गदर्शनेन वचनसाहित्यं सृष्ट्वा आन्तरङ्गिकाः भावनाः प्रकटीकरोति स्म । समाजस्य प्रगतिविषये, धर्मप्रचारविषये, गुरुलिङगजङगमतत्त्वविषये, धार्मिकक्रान्तिकारिणां पुरुषाणां सहवासे च तस्याः अवधानम् आसीत् न तु मातापितॄणां विषये । तस्याः इष्टदेवस्य श्रीशैलमल्लिकार्जुनस्य दर्शनं करणीयम् एव इति तस्याः लक्ष्यम् । प्रापञ्चिकविषयेषु तस्याः मनः न लगति स्म । अतः शरणसती इत्येषः बिरुदः तस्याः कृते युज्यते स्म । परमसौन्दर्यवती महादेवी स्वस्य सौन्दर्यस्य विषये अवधानं न ददाति स्म । प्रापञ्चिकव्यसनानि त्यक्त्वा सर्वदा चेन्नमल्लिकार्जुनेन सह प्रेम -भावेन भवति स्म । सा विशिष्टस्वभावयुता महाव्यक्तिः । रतिस्वरूपिणी महादेवी स्वव्यक्तित्वेन बहूनां जनानां मार्गदर्शिका, प्रतिवेशिनीनां कृते ज्येष्ठा अग्रजा (कन्नडभाषया अक्क=अग्रजा) इव आसीत्।

सांसारिकजीवनम्

सम्पादयतु
 
उडुतड्याम् अक्कमहादेव्याः निवासः

जैनमतावलम्बी कौशिकः तस्य प्रान्तस्य राजा आसीत् । रतिस्वरूपिणीं सौन्दर्यवतीं महादेवीं दृष्ट्वा तस्मिन् मोहः उत्पन्नः । कौशिकमहाराजस्य मनसि सा परिणेतव्या इति इच्छा उत्पन्ना । एतां वार्तां महादेव्याः मातापितरौ ज्ञातवन्तौ । जिनधर्मीयौ तौ एतं प्रस्तावं न अङ्गीकृतवन्तौ । किन्तु कौशिकमहाराजः तस्याः पितरौ बलात् कारागृहे स्थापितवान्। इदानीं वा पुत्री मम इच्छाम् अनुमन्येत इति तस्य चिन्तनम् आसीत् । राजाज्ञायाः विरुद्धं व्यवहारः कष्टकरः इति विचिन्त्य सा एकम् उपायं विचिन्त्य विवाहार्थम् अङ्गीकृतवती । तदनुगुणं परिस्थितिः निर्मिता । राज्ञा अपि केचन नियमाः अङ्गीकरणीयाः अभवन् । प्रथमं, कौशिकमहाराजेन जिनमतं त्यक्त्वा वीरशौवमतं अङ्गीकरणीयं द्वितीयं महादेव्या क्रियमाणायां गुरुलिङ्गजङ्गमानां सेवायां विघ्नः न आचरणीयः इत । यदा राजा शिवाराधकः भवति तदा एव महादेव्याः स्पर्शः इति तृतीयः नियमः आसीत् । राज्ञा यदि वचनभङ्गः क्रियेते तर्हि विरागिणी भूत्वा प्रासादं त्यजेयम् इत्यपि महादेवी सूचितवती आसीत् । विवाहः सम्पन्नः । राजगृहे कापि न्यूनता न आसीत् । महाराजस्य अन्तरङ्गे बहु आनन्दः जातः । किन्तु लिङ्गपूजकः भवेत्, अन्यथा महादेव्याः अङ्गस्पर्शः असम्भवः आसीत् । महाराजस्य वीरशैवधर्मंस्य आचरणे इच्छा न भवति स्म । अग्रे कदाचित् महादेव्या सह संसारस्य सुखम् अनुभवेयम् इति सः चिन्तितवान् । महादेवी कठिनव्रतधारिणी भूत्वा महाराजस्य चिन्तनानि नाशितवती । संसारिकजीवने तस्याः आसक्तिः न आसीत् । पत्न्याः व्यवहारान् दृष्ट्वा राजा कौशिकः अङ्गसुखाय तस्याः अनुरोधं कृतवान् । एतेन महादेवी रणचण्डी जाता ।

अनुभवमण्डपे

सम्पादयतु

शरीरे विद्यमानानि आभरणानि तथा वस्त्राणि निष्कास्य क्षिप्तवती । स्वस्य शरीरस्य विषये अपि न चिन्तितवती, केशराशीं प्रसार्य रणचण्डी इव किञ्चित् कालं स्थितवती । नग्नस्थितौ महादेवी स्वस्य केशराश्या शरीरम् आच्छाद्य प्रासादतः प्रस्थितवती । राजा कौशिकः महादेव्याः एतादृशान् व्यवहारान् दृष्ट्वा शिरः अवनमय्य स्थितवान् । दिगम्बरा देवी दिव्याम्बरा जाता । देहाभिमानं जगतः सम्बन्धं च त्यक्त्वा, मतापित्रोः वचनम् अपि अश्रुत्वा चेन्नमल्लिकार्जुनः एव मम पतिः इति निर्णीय गुरोः अल्लमप्रभोः दर्शनाय प्रयाणम् आरब्धवती । तदा शरणानां कल्याणभूमिः कल्याणनगरम् आसीत् । अल्लमप्रभुः,बसवेश्वरः अन्ये महानुभावाः कल्याणनगरस्य शोभां वर्धितवन्तः आसन् । तत्रत्यः शिवानुभावमण्डपः शिवशरणानां कार्यागारः । एतं मण्डपं प्रति आगतवती अक्कमहादेवी । सर्वे एताम् आनन्देन स्वागतीकृतवन्तः । तत्र तस्याः प्रभोः लिङ्गदेवस्य दर्शनम् अभवत् । शरणबसवण्णः इतरे शरणाः च महादेव्याः निर्वाणस्थितिं दृष्ट्वा आश्चर्यंम् अनुभूतवन्तः । प्रभुलिङ्गदेवेन तस्याः निर्वाणस्थितिः उद्देशपूर्वकं शङ्किता। ‘ देहाभिमानं त्यक्तवती इति वदति तर्हि किमर्थं शाटिकां त्यक्त्वा केशैः आच्छादितवती? केशाः एव शाटिकारूपेण अङ्गानाम् आवरणं कुर्वन्ति इति खलु ! एषः गुहेश्वरलिङ्गस्य इष्टवेशः न ’ इति अल्लमप्रभुः उक्तवान् । तस्य उत्तरं बुद्धिमती महादेवी एवम् उक्तवती "पक्वभवनेन फलस्य त्वचः सौन्दर्यं नष्टं न भवति” । अतः काममुद्रां दृष्ट्वा भवतः दुःखं न भवेत् इति केशैः आवृतवती” इति । एवं महादेव्याः वादं श्रुत्वा अल्लमप्रभोः तृप्तिः अभवत् । महादेवीं बसवण्णः तथा तत्र विद्यामानाः मुक्तकण्ठैः श्लाघितवन्तः । महादेवी शरणानां प्रीतिं प्राप्य अक्कमहादेवी जाता । बसवण्णः तां स्वस्य मातृवत् गौरवभावेन दृष्टवान् । बहुकालं शिवानुभावमण्डपे स्थित्वा अक्कमहादेवी परिपूर्णज्ञानं प्राप्य उन्नतस्तरीया साधिका भूत्वा गुरूणाम् अनुग्रहार्थं निरीक्षां कृतवती । प्रभूणाम् अनुग्रहेण श्रीशैलस्य कदलीक्षेत्रं प्रति गतवती । गिरेः उपरितनकदलीक्षेत्रे तस्याः जीवनं दिव्यज्योतिरूपेण परिणतम् अभवत् । सा ज्योतिः प्रज्वलिता अभवत्। अक्कमहादेवी तत्र कर्पूरवत् ज्वलन्ती शिवसायुज्यं प्राप्तवती । तस्याः दिव्यस्वरूपम् अनन्ते आकाशे सम्मिल्य स्त्रीकुलस्य मार्गदर्शनम् अकरोत् । अक्कमहादेव्याः भक्तिभावः "शरणसती लिङ्गपतिः” इव जातः । सा स्वरचितेषु वचनेषु लोकानुभावं दृष्टान्तैः सह अत्यन्तं सरलरीत्या विवृतवती अस्ति ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=अक्कमहादेवी&oldid=484320" इत्यस्माद् प्रतिप्राप्तम्