अद्यतनः विशेषः लेखः

शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः
न्यायशास्त्रपण्डितः चैतन्यमहाप्रभुः

न्यायदर्शनम् भारतीयदर्शनेषु अन्यतमम्। वैदिकदर्शनेषु न्यायशास्त्रस्यापि गणना विधीयते। प्राचीनैरप्युक्तं यत् आन्वीक्षिकी सर्वासां विद्यानां मूलमस्ति। काव्यमीमांसायाः लेखकः राजशेखरोऽपि कौटिल्यसम्मतान् विद्याभेदान् आन्वीक्षिकी-त्रयीवार्त्ता-दण्डनीतिसंज्ञाभिरभिहितवान्। स्वयं कौटिल्यः आन्वीक्षिकीं सर्वासां विद्यानां प्रदीपभूतां सर्वेषां कार्याणाम् उपायरूपां, सर्वेषां धर्माणां आश्रयरूपां च प्रतिपदितवान्। फलतः विद्यायाः आन्वीक्षिकीत्याख्यं रूपं स्वरूपं न्यायशास्त्रस्य प्रतिपादनाय परमोपयोगी अस्ति। प्रमाणैः पदार्थानां परीक्षणं न्याय उच्यते। (अधिकवाचनाय »)



অবদানকারীর জন্য পাঠ্য
अद्यतनं चित्रम्

मैसूरुराजगृहम्

Mysore-palace-7.jpg



वार्तासु

योगः कर्मसु कौशलम्

अन्ताराष्ट्रिययोगदिवसः जून-मासस्य एकविंशतितमे (२१/६) दिनाङ्के जनैः आचर्यते। योगः अनन्तकालात् प्रचलितः शारीरिक-मानसिक-आध्यात्मिक-अभ्यासः अस्ति। योगस्य मूलानि भारतदेशे सर्वत्र प्राप्यन्ते। भारतीयसंस्कृतिः भौतिकसुखस्य अपेक्षया आध्यात्मिकसुखाय अधिकं बलं यच्छति। परन्तु शरीरमेव आध्यात्मिकक्षेत्रे उन्नतिं कर्तुम् एकमात्रं साधनं वर्तते इत्यपि भारतीयसंस्कृतेः मतम्। अतः मनसः शान्तिः, शरीरस्य स्वस्थता च मनुष्यस्य आवश्यकता भवति। तस्याः आवश्यकतायाः पूर्त्यै भारतीयतत्वचिन्तकैः योगशास्त्रस्य रचना कृता। अनेन योगशास्त्रेण मनसः शान्तिः, शरीरस्य स्वस्थता च वैज्ञानिकरीत्या प्राप्यते। (अधिकवाचनाय »)




"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=425470" इत्यस्माद् पुनः प्राप्तिः
अन्यभाषया पठ्यताम्