अटकयुद्धम् (१७५८)
अटकयुद्धम् 28 अप्रैल्मासे 1758 तमे वर्षे मराठासेनायाः दुरानिसेनायाश्च मध्ये बभूव। अस्मिन् युद्धे रघुनाथरावेन मराठासेना नीता अपि च दुरानिसेना अटकनगरे पराजिता। इदम् विजयम् मराठाराष्ट्राय अतिविशिष्टम् आसीत्। नार्सोजिपण्डितम् 4000 सैनिकैः सह दुर्गरक्षणे नियोज्य रघुनाथरावः अपजगाम।.[१]
परिणामः
सम्पादयतुविजयानन्तरम् रघुनाथरावेन पेशवानानासाहेबाय पत्रम् प्रेषितम्।[२][३]
“ | "लवपुरी, मलिस्थानम्, कश्मीरम् अपिच अटकक्षेत्रे अन्याः जनपदाः वशीकृताः। यानि क्षेत्राणि न वशीकृतानि, तानि शीघ्रे वशीकरिष्यामः। अहमदशाहस्य पुत्रः तिमूरः जहान्खानः चास्मदीयैः सैनिकैः द्रावितः। दुरानिसेनायाः कोशमपि लुण्टितम्। तौ उभयौ अल्पसैन्यसहितौ पुरुषपुरम् जग्मतुः। ततः अहमदशाहः गान्धारम् 12000-14000 निर्बलैः सैनिकैः सह प्रतिजगाम। तस्मात् सर्वैः अपि अहमदशाहस्य विरुद्धम् विद्रोहम् आरभते। वयम् निश्चयम् कृतवन्तः यत् गान्धारम् अपि जेतव्यम्।" | ” |
इति पत्रे लिखितम्।
8 मैमासे मराठासेनया दुरानिसेना पुरुषपुरे पराजिता, ततः पुरुषपुरम् विजितम्। मराठासेना अफ़्गानिस्तानसीमाम् प्राप। अहमदशाहः मराठासेनायाः संततेभ्यो विजयेभ्यो भीतो बभूव। ततः सः लुप्तानि क्षेत्राणि पुनर्वशीकर्तुमद्यममारम्भम् चकार तथा 1759 तमे वर्षे सफलो बभूव।
स्त्रोताः
सम्पादयतु- ↑ Mehta, J.L. (2005). Advanced Study in the History of Modern India 1707-1813. New Dawn Press, Incorporated. p. 237. ISBN 9781932705546. आह्रियत 2015-05-15.
- ↑ Roy, K. (2011). War, Culture and Society in Early Modern South Asia, 1740-1849. Taylor & Francis. p. 103. ISBN 9781136790874. आह्रियत 2015-05-15.
- ↑ Roy, Kaushik. India's Historic Battles: From Alexander the Great to Kargil. Permanent Black, India. pp. 80–1. ISBN 978-81-7824-109-8.
अन्यस्त्रोताः
सम्पादयतु- Duff, James Grant (1921). A history of the Mahrattas, Volume 2
- Roy, K. (2011). War, Culture and Society in Early Modern South Asia, 1740-1849. Taylor & Francis. p. 103. ISBN 9781136790874. आह्रियत 2015-05-15.