अद्वैतवेदान्ते कारणकार्यभावः

अस्य जगतः कारणं ब्रह्म, कार्यं तु जगत्। अनयोः मध्ये कार्यकारणभावः विद्यते। तत्र ब्रह्म जगतः निमित्तोपादानकरणम् इत्युच्यते। कारणं द्विविधम्:

  1. निमित्तकारणम्।
  2. उपादानकारणम् चेति।
आदिगुरुःश्री गौडपादाचार्यः, श्री आदिशङ्करस्य गुरुः। तथैव गौडपादाचार्यमठस्य संस्थापकः


कार्यभिन्नं कारणं निमित्तकारणम्। कार्याभिन्नं कारणम् उपादानकारणम्। अस्मिन् मते कारणं कार्ये अनुवर्तते। एवं कार्यकारणयोः अनन्यत्वं अङ्गीकुर्वन्ति।