आधारोऽधिकरणम् -१.४.४५ कर्तृकर्मद्वारा तन्निष्ठक्रियायाः आधारः कारकम् अधिकरणसंज्ञः स्यादिति सूत्रार्थः । कर्तरि विद्यमानक्रियायाः कर्मणि विद्यमानफलस्य वा आधारः अधिकरणसंज्ञको भवतीति फलितार्थः ।

अधिकरणकारकम्

कर्तृनिष्ठक्रियायाः उदाहरणम् सम्पादयतु

बालः कटे उपविशति । उप-उपसर्गपूर्वकविशधातोः अर्थः यत्किञ्चिद्देशसंयोगरुपं फलम्, तदनुकूलक्रिया च । उपवेशनक्रियायाः आश्रयः बालः कर्ता । बाले विद्यमानायाः क्रियायाः आधारः कटः । अतः कटः अधिकरणम् ।

फलकम्:Inbox settlement

कर्मनिष्ठक्रियायाः उदाहरणम् सम्पादयतु

सूदः ओदनं स्थाल्यां पचति । पचधातोः अर्थः विक्लित्तिरुपफलं, तदनुकूलक्रिया च । पाकक्रियाश्रयः सूदः कर्ता । विक्लित्तिरुपफलाश्रयः ओदनः कर्म । कर्मभूते ओदने वर्तमानस्य विक्लित्तिरुपफलस्य आधारः स्थाली । अतः स्थाली अधिकरणम् । (‘बालः कटे उपविशति’ इति उदाहरणे उपवेशनक्रिया बाले अस्ति । अतः साक्षात् क्रियायाः आधारः बालः एव । बालद्वारा क्रियायाः आधारः कटः । ‘सूदः ओदने अस्ति । अतः साक्षात्फलस्य आधारः ओदनम् एव । ओदनद्वारा फलस्य आधारः स्थाली । अतः सर्वत्र परम्परया क्रियायाः फलस्य वा आधारः एव अधिकरणं भवति इति ज्ञेयम् । ( ‘कर्तुः कर्मणः वा आधारः अधिकरणं भवति ’ इति बालान् उद्दिश्य बोधनं वरम् ।)

"https://sa.wikipedia.org/w/index.php?title=अधिकरणकारकम्&oldid=395083" इत्यस्माद् प्रतिप्राप्तम्