अनुशीलनसमितिः नाम बङ्किमचन्द्र चटर्जिमहोदयस्य तत्त्वपालनस्य सङ्घटनम् इति अर्थः । क्रिस्तोत्तर २०तम शातक्स्य आरम्भे बङ्गालराज्ये मुख्यगुप्तक्रान्तिकारि सङ्घटनम् एव अनुशीलनसमितिः । अस्य शाखा जुगन्तर नगरस्य बाह्यप्रदेशे व्यायमशाला इव भूगता आसीत् । भारतस्य दास्यविमोचनार्थं क्रान्तिकारिकं सशस्त्रम् आन्दोलनम् अस्य उद्देशः आसीत् । कोलकत्तायाः अनन्तरं डाका इति नगरे अस्य सङ्घटनस्य प्राबल्यम् आसीत् । क्रमेण भारतस्य सर्वग्रामान् प्राविशत् । तदानीन्तने काले एतादृशी क्रान्तिकारिणः सङ्घटनम् अत्यावश्यम् अपि आसीत् ।

"https://sa.wikipedia.org/w/index.php?title=अनुशीलनसमितिः&oldid=398858" इत्यस्माद् प्रतिप्राप्तम्