अनु पश्चात्कृपाज्ञानसान्त्वने सेवनेच्छ्योः ।
            सादृश्याचरणप्रश्र्नादेशाङ्गीकृतमार्गणे ॥
प्रोत्साहने चानुकूम्ये पश्चात्तापानुपूर्वयोः ।
            प्रसाधने चोपकारे सातत्यालोचनान्वये ॥

प्रयोगाः सम्पादयतु

१ पश्चात् – अनुचरः ।
२ कृपायाम् – अनुशोचति ।
३ ज्ञाने – अनुभवति, अनुमानम् ।
४ सान्त्वने – अनुकूलयति ।
५ सेवने – अन्वास्ते ।
६ इच्छायाम् – अनुरोधः ।
७ सादृश्ये – अनुहरति, अनुकरोति ।
८ आचरणे – अनुष्ठानम् ।
९ प्रश्र्ने = अनुजिज्ञासते ।
१० आदेशे – अनुशास्ति ।
११ अङ्गीकृतौ – अनुमोदते ।
१२ मार्गणे – अन्विष्यति ।
१३ प्रोत्साहने – होत्रे अनुगृह्णाति ।
१४ आनुकूल्ये – अनुकूलः, अनुरक्तः ।
१५ पश्चात्तापे – अनुशयः ।
१६ आनुपूर्व्याम् – अनुक्रमति ।
१७ प्रसाधने – चन्दनेन अनुलिम्पति ।
१८ उपकारे – अनुकल्पते ।
१९ सातत्ये – अनुबध्नाति ।
२० आलोचने – अनुसन्धत्ते ।
२१ अन्वये – अनुगतः ।

"https://sa.wikipedia.org/w/index.php?title=अनु_(उपसर्गः)&oldid=408193" इत्यस्माद् प्रतिप्राप्तम्