अप (उपसर्गः)
(अप इत्यस्मात् पुनर्निर्दिष्टम्)
- पान्यथात्वे विश्लेषे ह्रासोद्धाटनवारणे ।
- ईप्साव्यावृक्त्यनुत्कर्षन्यक्कारोत्प्राशमुक्तिषु ॥
- प्रतिदानव्याजदोषद्रोहनिह्नवखेलने ।
- चौर्यनिर्देशपूजासु वैकृत्येऽशे विपर्यये ॥
प्रयोगाः
सम्पादयतु- १ अन्यथात्वे – अपवर्तते ।
- २ विश्लेषे – अपयुज्यते ।
- ३ ह्रासे – अपचयः ।
- ४ उद्धाटने – अपवृत्तं द्वारम् ।
- ५ वारणे – अपहतं पापम् ।
- ६ ईप्सायाम् – अपेक्षते ।
- ७ व्यावृत्तौ – अपयाति ।
- ८ अनुत्कर्षे – अपकृष्टः ।
- ९ न्यक्कारे – अपक्षिपति ।
- १० उत्प्राशे – अपहसति ।
- ११ मुक्तौ – अपवर्गः ।
- १२ प्रतिदाने – अपायते ॠणम् ।
- १३ व्याजे – अपदेशः ।
- १४ दोषे – अपभाषा । अपवादः ।
- १५ द्रोहे – अपराध्यति । अपकारः ।
- १६ निह्नवे – अपजानीते । अपह्नुते ।
- १७ खेलने – हृष्टः ॠषभः अपस्किरते ।
- १८ चौर्ये – अपहरति ।
- १९ निर्देशे – अपदशति ।
- २० पूजायाम् – अपचितः विष्णुः ।
- २१ वैकृत्ये – अपस्कीर्णमुखः ।
- २२ अंशे – अपस्करः ।
- २३ विपर्यये – अपनयः । अपमृत्युः ।