अपादानकारकम्
Bold text
karakam |
---|
ध्रुवमपायेऽपादानम् -१.४.२४ (अपायः= विश्लेषः । ध्रुवम् = अवधिभूतम्) विश्लेषे साध्ये अवधिभूतं कारकम् अपादानं स्यात् इति सूत्रार्थः । विभागाश्रयः अपादानं भवति इति फलितार्थः । यथा – पर्णं वृक्षात् पतति । पतधातोरर्थः अधोदेशसंयोगरुपं फलं, तदनुकूलक्रिया च । पतनक्रियाश्रयः पर्णं कर्तृ । अवधिभूतः विभागाश्रयः वृक्षः । अतः वृक्षः अपादानम् (यत्र अपादानस्य प्रसक्तिः तत्र द्वयोः संयुक्तयोः विभागः भवेत् एव । यथात्र संयुक्तयोः वृक्षपर्णयोः विभागः जातः अस्ति ।)
विभागः वृक्षे पर्णे च अस्ति, विभागस्य द्विनिष्ठत्वात् । अतः पर्णम् अपि विभागाश्रयः एव इत्यतः पर्णम् अपि कुतः अपादानं न भवति इति शङ्का जायते । तत्र इदं समाधानम् –पर्णं यथा विभागाश्रयः तथा पतनक्रियाश्रयः अपि । अतः विभागाश्रयत्वात् पर्णम् अपादानसंज्ञकं, पतनक्रियाश्रयत्वात् कर्तृसंज्ञकम् अपि । एकस्य एव द्वयोः प्रसक्तौ परसंज्ञा एव कर्तव्या । अष्टाध्याय्यां अपादानसंज्ञायाः (१.४.२४) अपेक्षया कर्तृसंज्ञा (१.४.५४) एव परा । अतः पर्णस्य कर्तृसंज्ञा एव, न तु अपादानसंज्ञा । अत्र प्रमाणं –‘विप्रतिषेधे परं कार्यम्’ इति सूत्रम् ।
उदाहरणम्
सम्पादयतु- कृष्णः गोकुलात् आगच्छति । आगमनक्रियाश्रमः कृष्णः कर्ता । संयुक्तयोः कृष्णगोकुलयोः कृष्णस्य आगमनेन विभागः जातः । तदा अवधिभूतः विभागाश्रयः गोकुलम् । अतः गोकुलम् अपादानम् ।
- पान्थः पर्वतात् अवरोहति । अवरोहणक्रियाश्रयः पान्थः कर्ता । संयुक्तयोः पान्थपर्वतयोः अवरोहणेन विभागः जातः । तदा (अवधिभूतः) विभागश्रयः पर्वतः । अतः पर्वतः अपादानम् ।
- खगः वृक्षात् डयते । डयनक्रियाश्रयः खगः कर्ता । संयुक्तयोः खगवृक्षयोः डयनेन विभागः जातः । तदा (अवधिभूतः) विभागाश्रयः वृक्षः । अतः वृक्षः अपादानम् ।