पान्यथात्वे विश्लेषे ह्रासोद्धाटनवारणे ।
ईप्साव्यावृक्त्यनुत्कर्षन्यक्कारोत्प्राशमुक्तिषु ॥
प्रतिदानव्याजदोषद्रोहनिह्नवखेलने ।
चौर्यनिर्देशपूजासु वैकृत्येऽशे विपर्यये ॥

प्रयोगाः सम्पादयतु

१ अन्यथात्वे – अपवर्तते ।
२ विश्लेषे – अपयुज्यते ।
३ ह्रासे – अपचयः ।
४ उद्धाटने – अपवृत्तं द्वारम् ।
५ वारणे – अपहतं पापम् ।
६ ईप्सायाम् – अपेक्षते ।
७ व्यावृत्तौ – अपयाति ।
८ अनुत्कर्षे – अपकृष्टः ।
९ न्यक्कारे – अपक्षिपति ।
१० उत्प्राशे – अपहसति ।
११ मुक्तौ – अपवर्गः ।
१२ प्रतिदाने – अपायते ॠणम् ।
१३ व्याजे – अपदेशः ।
१४ दोषे – अपभाषा । अपवादः ।
१५ द्रोहे – अपराध्यति । अपकारः ।
१६ निह्नवे – अपजानीते । अपह्नुते ।
१७ खेलने – हृष्टः ॠषभः अपस्किरते ।
१८ चौर्ये – अपहरति ।
१९ निर्देशे – अपदशति ।
२० पूजायाम् – अपचितः विष्णुः ।
२१ वैकृत्ये – अपस्कीर्णमुखः ।
२२ अंशे – अपस्करः ।
२३ विपर्यये – अपनयः । अपमृत्युः ।
"https://sa.wikipedia.org/w/index.php?title=अप_(उपसर्गः)&oldid=408200" इत्यस्माद् प्रतिप्राप्तम्