अमरुः
संस्कृतसाहित्ये नैकैः कविभिः नानावस्तुवैविध्यमयानि शतककाव्यानि प्रणीतानि । तादृशेषु शतककाव्येषु शृङ्गाररसवस्तुविशदम् '''अमरुशतकम्''' अन्यतमम् । अस्य काव्यस्य रचयिता अमरुः (Amaru) अथवा अमरुकः (Amaruka) । एतस्य नान्यानि काव्यानि तूपलभ्यन्ते, किन्तु एकेनापि शतपद्यात्मकेन काव्येन समनस्कानाम् हृदयसिंहविष्टरे राजते । एषः "सुवर्णकारः" आसीदिति "सुभाषितावल्याः" विश्वप्रख्यातनाडिंधमकुलतिलको विश्वकर्मा द्वितीयः इति पद्येन ज्ञातुं शक्यते । तथापि अस्य मातापितरौ कौ इति न कुत्रापि उल्लेखः दृश्यते ।
अमरु | |
---|---|
कवेः कालः
सम्पादयतुअयम् प्राचीनकालीनः एक: कवि: आसीत् । अष्टमे शतमाने यदा श्री आदिशङ्कराचार्याः आसन् स एवास्य जीवितकाल इति कालविमर्शनचतुराः अभिप्रयन्ति । नवमे शतमाने लब्धकीर्तिः ध्वन्यालोककर्ता आनन्दवर्धनः स्वग्रन्थे ध्वन्यालोके तृतीयोद्योते
- मुक्तकेषु हि प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते, तथा ह्यमरुकस्य कवेर्मुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव ।
इति वदन् अमरुशतकस्य अनेकान् श्लोकान् उदाहरति । अतः तस्मात् पूर्वस्मिन् काले एव "अमरुशतकम्" प्रसिद्धिमगात् इति ऊहितुं शक्यते । अतः अष्टमे शतमाने एव अयं कविः अवर्तत इति निर्णेतुं शक्यते । अपिच अस्य कालः अष्टमम् शतकमिति विश्वसितुं सहायकाः अनेके आधाराः लभ्यन्ते । एवम् अस्य कालः अष्टमम् शतकम् इति निश्चप्रचम् ।
कर्तृत्वे विवादः
सम्पादयतुशङ्करदिग्विजयस्य सन्दर्भे यदा मण्डनमिश्रपत्न्या शारदादेव्या सह शास्त्रार्थवादः समजनि तदा श्रीशङ्करभगवत्पादाः शारदायाः प्रश्नानाम् उत्तरदानार्थम् गतप्राणस्य अमरुकाख्यस्य नृपतेः देहम् परकायप्रवेशविधिना प्रविश्य राज्ञः अन्तःपुरे वात्स्यायनकामसूत्राण्यधीत्य तन्नाम्ना एतद्ग्रन्थं प्रणिनाय इति केचन प्रवदन्ति । किन्तु माधवकविप्रणीते शङ्करदिग्विजये शङ्कराचार्यैः अमरुराजस्य कायप्रवेशसङ्गतिः भवति तथापि तैरेव अमरुशतकस्य रचना कृता इति विषयः नोपदृश्यते । अतः एतस्य शङ्कराचार्यकर्तृत्वे यः प्रवादः वर्तते सः लोकरञ्जनमात्रे प्रवृत्तः इति भाति । अपि तु माधवकविना प्रणीते शङ्करविजये श्रीमच्छङ्करभगवत्पादा एव अमरुशतकस्य कर्तारः इति स्पष्टतया निरूपितम् नास्ति । अपि च शङ्करदिग्विजये अमरुकराजस्य अवसानसन्निवेशः वर्णितः चेदपि, शारदायाः प्रश्नानुसारम् उत्तररूपेण कान्यपि पद्यानि अमरुशतके न सन्ति । तस्मात् अयं कविः अन्य एवेति निर्णेतुं शक्यते ।
काव्यपरिचयः
सम्पादयतुएषः अमरुशतकम् नाम शृङ्गाररसगर्भिततं काव्यमेकम् चकार । अत्र काव्ये प्रणयिनोः भावाः, आनन्दः, प्रीतिः, प्रणयकोपः, विरहः, अनुनयः इत्यादयः अतीव मनोज्ञतया वर्णिताः सन्ति । अस्मिन् काव्ये अर्वाचीनानाम् केचन प्रक्षिप्ताः श्लोकाः अपि सङ्गताः इति काव्यमीमांसकाः मन्यन्ते । अपि च अमरुशतकस्य कानिचन पद्यानि "वल्लभदेवस्य" सुभाषितावलिः नाम्नि, आर्गटस्य, वासुदेवस्य, पुलिनस्य, विज्जिकायाः, दुर्वाहकस्य, रत्नाकरस्य, शिलाभट्टारिकायाः, अद्भुतमल्लस्य इति नामभिः अङ्कितानि दृश्यन्ते । अमरुकाः विशेषतः "शार्दूलविक्रीडिते" वृत्ते श्लोकान् व्यरचयदिति भासते । एतेन तादृशानि पद्यान्येव अमरुकस्य भवन्ति, अन्ये तत्र विद्यमानाः श्लोकाः प्रक्षिप्ताः इति केषाञ्चन अभिप्रायः ।
आमरुशतकस्य व्याख्यानानि
सम्पादयतुआन्ध्रप्रदेशीयः "पेद्दकोमटिवेमभूपालः" नामा अस्य ग्रन्थस्य शृङ्गारतिलकाख्यां व्याख्याम् अरचयदिति बोध्यते । एवमेव अर्जुनवर्मदेवः "रसिकसञ्जीविनीति, सूर्यदासः शृङ्गारतरङ्गिणीति, शेषरामकृष्णाख्यः रसिकसञ्जीविनीति, च व्याख्याः निरबध्नन् । तथा च रुद्रदेवस्य रविचन्द्रस्य च व्याख्याने केषुचित् पुस्तकेषु दृश्येते । एवम् अनेकानि व्याख्यानानि समुपलभ्यन्तेऽस्य शतकग्रन्थस्य । एताभिः व्याख्याभिः अस्य कवेः प्रतिभां विद्वांसोऽपि मानयन्ति स्म इति ज्ञातुम् शक्यते ।
उदाहरणानि
सम्पादयतुप्रणयकुपिता कान्ता स्वस्याः प्राण्पिये यथा व्यवहरति तथा वर्णितमत्र ।
- एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद्दूरतः, ताम्बूलाहरणच्छलेन रभसाऽऽश्लेषोऽपि संविघ्नितः ।
- आलापोऽपि न मिश्रितः परिजनं व्यावर्तयन्त्याऽन्तिके, कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥
कस्याञ्चित् अनुरक्तः मनसि आलोचते यथा-
- सा बाला वयमप्रग्ल्भमनसः सा स्त्री वयं कातराः, सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।
- साऽऽक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयम्, दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम् ॥
एवम् अमरुश्तके अमरुकेण मनोज्ञैः समुचितैः पदार्थनिवेशितैः भावगर्भितैः सन्निवेशैः शार्दूलविक्रीडितेन बहुरम्यम् क्रीडितम् कविना यत्तु सहृदयहृदयरङ्गे अधुनाऽपि नरीनृत्यति ।
यथैव अमरुककविताः प्रथिताः सन्ति, तथैव तदीयमितिवृत्तं तिरोहितं विद्यते । केवलमसौ नवमशतकतः पूर्वमवर्त्ततेति कथयितुं शक्यते, यतो ८५० ख्रीष्टीयकालिकौ ध्वनिकारः –‘मुक्तकेषु हि प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते । यथाऽमरुकस्य कवेर्मुक्तकाः शृङ्गारस्यन्दिनः प्रबन्धायमानाः प्रसिध्दा एव।’ इत्युक्तवान् । वामनेनापि ८०० ई. समुद्भूतेनास्य पद्यत्रयमुदाहृतम्, अतोऽस्य समयः अष्टमं शतकं मन्यते, ततः पूर्वमपि किञ्चित् कथयितुं शक्यते ।
अनेन शृङ्गाररसानुकूलाः प्रणयव्यहाराः कामिजनमनोभावाश्चैव केवलं वर्णिताः परं तत्रैव तावत्याकर्षकतोत्पादिता यदयं सुधीसमाजे गौरवमभजत । एतदीये अमरुतके शतमेकं श्लोकानाम्, संस्करणभेदेन न्यूनाधिकभावाऽपि कियान् प्राप्यते । अस्य ग्रन्थस्योध्दरणं प्रतिष्ठितैराचार्यैः कृतमतोऽस्य प्रियता प्रमातुं शक्यते । १२१५ ई. समुद्भूतेनार्जुनवर्मणाऽत्र व्याख्या लिखिता, रविचन्द्रेणास्य शतकस्याध्यात्मिकी व्याख्या कृता, चतुर्थशतकोत्पन्नेन वेमभूपालेन अस्य शतकस्य व्याख्यानायिकाभेदपरतया रचिता । रतिक्रीडा अङ्गना च मनुष्यजीवनस्यापेक्ष्योपादानविशेषौ तावधिकृत्य कृतोऽयं ग्रन्थः । अत्र का त्रुटिर्यामपनेतुं ब्रह्मज्ञानमत्र समावेशयितुं प्रयस्यन्ति सुधिय इति न जाने । अस्य कवेर्व्यञ्जनाशक्तिरतिप्रौढा –
असद्वृत्तौ नायं न च खलु गुणैरेव रहितः
प्रियो मुक्ताहारस्तव चरणमूले निपतितः ।
गृहाणेमं मुग्धे व्रजतु निजकण्ठप्रणयिता –
मुपायो नास्त्यन्यस्तव हृदयसन्तापशमने ॥
अत्र पद्ये वृत्तगुणाहारादिपदेषु श्लेषमहिम्ना यमर्थं कविर्व्यञ्जयति स परमरम्यो मूलभित्तिश्चास्य रसपेशलस्य काव्यस्य । अन्येऽप्यस्य रम्याः –‘प्रस्थानं वल्यैः कृतम्’ इत्यादयः श्लोकाः प्रसिध्दाः । अस्य सर्वोऽपि गन्थः परवर्त्तिभिः कविभिरात्मसात्कृतो भाषाकविभिः विहारिदासपद्माकरादिभिरनूदितकल्पश्च कृतः ।
बाह्यसम्पर्कतन्तुः
सम्पादयतु- अमरुः Archived २०१०-११-०९ at the Wayback Machine
- कानिचन श्लोकानि
- संस्कृतग्रन्थाः Archived २०१०-११-१० at the Wayback Machine