संस्कृतसाहित्ये नैकैः कविभिः नानावस्तुवैविध्यमयानि शतककाव्यानि प्रणीतानि । तादृशेषु शतककाव्येषु शृङ्गाररसवस्तुविशदम् '''अमरुशतकम्''' अन्यतमम् । अस्य काव्यस्य रचयिता अमरुः (Amaru) अथवा अमरुकः (Amaruka) । एतस्य नान्यानि काव्यानि तूपलभ्यन्ते, किन्तु एकेनापि शतपद्यात्मकेन काव्येन समनस्कानाम् हृदयसिंहविष्टरे राजते । एषः "सुवर्णकारः" आसीदिति "सुभाषितावल्याः" विश्वप्रख्यातनाडिंधमकुलतिलको विश्वकर्मा द्वितीयः इति पद्येन ज्ञातुं शक्यते । तथापि अस्य मातापितरौ कौ इति न कुत्रापि उल्लेखः दृश्यते ।

अमरु
Skyline of अमरु

कवेः कालः सम्पादयतु

अयम् प्राचीनकालीनः एक: कवि: आसीत्‌ । अष्टमे शतमाने यदा श्री आदिशङ्कराचार्याः आसन् स एवास्य जीवितकाल इति कालविमर्शनचतुराः अभिप्रयन्ति । नवमे शतमाने लब्धकीर्तिः ध्वन्यालोककर्ता आनन्दवर्धनः स्वग्रन्थे ध्वन्यालोके तृतीयोद्योते

मुक्तकेषु हि प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते, तथा ह्यमरुकस्य कवेर्मुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव ।

इति वदन् अमरुशतकस्य अनेकान् श्लोकान् उदाहरति । अतः तस्मात् पूर्वस्मिन् काले एव "अमरुशतकम्" प्रसिद्धिमगात् इति ऊहितुं शक्यते । अतः अष्टमे शतमाने एव अयं कविः अवर्तत इति निर्णेतुं शक्यते । अपिच अस्य कालः अष्टमम् शतकमिति विश्वसितुं सहायकाः अनेके आधाराः लभ्यन्ते । एवम् अस्य कालः अष्टमम् शतकम् इति निश्चप्रचम् ।

कर्तृत्वे विवादः सम्पादयतु

शङ्करदिग्विजयस्य सन्दर्भे यदा मण्डनमिश्रपत्न्या शारदादेव्या सह शास्त्रार्थवादः समजनि तदा श्रीशङ्करभगवत्पादाः शारदायाः प्रश्नानाम् उत्तरदानार्थम् गतप्राणस्य अमरुकाख्यस्य नृपतेः देहम् परकायप्रवेशविधिना प्रविश्य राज्ञः अन्तःपुरे वात्स्यायनकामसूत्राण्यधीत्य तन्नाम्ना एतद्ग्रन्थं प्रणिनाय इति केचन प्रवदन्ति । किन्तु माधवकविप्रणीते शङ्करदिग्विजये शङ्कराचार्यैः अमरुराजस्य कायप्रवेशसङ्गतिः भवति तथापि तैरेव अमरुशतकस्य रचना कृता इति विषयः नोपदृश्यते । अतः एतस्य शङ्कराचार्यकर्तृत्वे यः प्रवादः वर्तते सः लोकरञ्जनमात्रे प्रवृत्तः इति भाति । अपि तु माधवकविना प्रणीते शङ्करविजये श्रीमच्छङ्करभगवत्पादा एव अमरुशतकस्य कर्तारः इति स्पष्टतया निरूपितम् नास्ति । अपि च शङ्करदिग्विजये अमरुकराजस्य अवसानसन्निवेशः वर्णितः चेदपि, शारदायाः प्रश्नानुसारम् उत्तररूपेण कान्यपि पद्यानि अमरुशतके न सन्ति । तस्मात् अयं कविः अन्य एवेति निर्णेतुं शक्यते ।

काव्यपरिचयः सम्पादयतु

एषः अमरुशतकम् नाम शृङ्गाररसगर्भिततं काव्यमेकम् चकार । अत्र काव्ये प्रणयिनोः भावाः, आनन्दः, प्रीतिः, प्रणयकोपः, विरहः, अनुनयः इत्यादयः अतीव मनोज्ञतया वर्णिताः सन्ति । अस्मिन् काव्ये अर्वाचीनानाम् केचन प्रक्षिप्ताः श्लोकाः अपि सङ्गताः इति काव्यमीमांसकाः मन्यन्ते । अपि च अमरुशतकस्य कानिचन पद्यानि "वल्लभदेवस्य" सुभाषितावलिः नाम्नि, आर्गटस्य, वासुदेवस्य, पुलिनस्य, विज्जिकायाः, दुर्वाहकस्य, रत्नाकरस्य, शिलाभट्टारिकायाः, अद्भुतमल्लस्य इति नामभिः अङ्कितानि दृश्यन्ते । अमरुकाः विशेषतः "शार्दूलविक्रीडिते" वृत्ते श्लोकान् व्यरचयदिति भासते । एतेन तादृशानि पद्यान्येव अमरुकस्य भवन्ति, अन्ये तत्र विद्यमानाः श्लोकाः प्रक्षिप्ताः इति केषाञ्चन अभिप्रायः ।

आमरुशतकस्य व्याख्यानानि सम्पादयतु

आन्ध्रप्रदेशीयः "पेद्दकोमटिवेमभूपालः" नामा अस्य ग्रन्थस्य शृङ्गारतिलकाख्यां व्याख्याम् अरचयदिति बोध्यते । एवमेव अर्जुनवर्मदेवः "रसिकसञ्जीविनीति, सूर्यदासः शृङ्गारतरङ्गिणीति, शेषरामकृष्णाख्यः रसिकसञ्जीविनीति, च व्याख्याः निरबध्नन् । तथा च रुद्रदेवस्य रविचन्द्रस्य च व्याख्याने केषुचित् पुस्तकेषु दृश्येते । एवम् अनेकानि व्याख्यानानि समुपलभ्यन्तेऽस्य शतकग्रन्थस्य । एताभिः व्याख्याभिः अस्य कवेः प्रतिभां विद्वांसोऽपि मानयन्ति स्म इति ज्ञातुम् शक्यते ।

उदाहरणानि सम्पादयतु

प्रणयकुपिता कान्ता स्वस्याः प्राण्पिये यथा व्यवहरति तथा वर्णितमत्र ।

एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद्दूरतः, ताम्बूलाहरणच्छलेन रभसाऽऽश्लेषोऽपि संविघ्नितः ।
आलापोऽपि न मिश्रितः परिजनं व्यावर्तयन्त्याऽन्तिके, कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥

कस्याञ्चित् अनुरक्तः मनसि आलोचते यथा-

सा बाला वयमप्रग्ल्भमनसः सा स्त्री वयं कातराः, सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।
साऽऽक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयम्, दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम् ॥

एवम् अमरुश्तके अमरुकेण मनोज्ञैः समुचितैः पदार्थनिवेशितैः भावगर्भितैः सन्निवेशैः शार्दूलविक्रीडितेन बहुरम्यम् क्रीडितम् कविना यत्तु सहृदयहृदयरङ्गे अधुनाऽपि नरीनृत्यति ।

यथैव अमरुककविताः प्रथिताः सन्ति, तथैव तदीयमितिवृत्तं तिरोहितं विद्यते । केवलमसौ नवमशतकतः पूर्वमवर्त्ततेति कथयितुं शक्यते, यतो ८५० ख्रीष्टीयकालिकौ ध्वनिकारः –‘मुक्तकेषु हि प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते । यथाऽमरुकस्य कवेर्मुक्तकाः शृङ्गारस्यन्दिनः प्रबन्धायमानाः प्रसिध्दा एव।’ इत्युक्तवान् । वामनेनापि ८०० ई. समुद्भूतेनास्य पद्यत्रयमुदाहृतम्, अतोऽस्य समयः अष्टमं शतकं मन्यते, ततः पूर्वमपि किञ्चित् कथयितुं शक्यते ।

अनेन शृङ्गाररसानुकूलाः प्रणयव्यहाराः कामिजनमनोभावाश्चैव केवलं वर्णिताः परं तत्रैव तावत्याकर्षकतोत्पादिता यदयं सुधीसमाजे गौरवमभजत । एतदीये अमरुतके शतमेकं श्लोकानाम्, संस्करणभेदेन न्यूनाधिकभावाऽपि कियान् प्राप्यते । अस्य ग्रन्थस्योध्दरणं प्रतिष्ठितैराचार्यैः कृतमतोऽस्य प्रियता प्रमातुं शक्यते । १२१५ ई. समुद्भूतेनार्जुनवर्मणाऽत्र व्याख्या लिखिता, रविचन्द्रेणास्य शतकस्याध्यात्मिकी व्याख्या कृता, चतुर्थशतकोत्पन्नेन वेमभूपालेन अस्य शतकस्य व्याख्यानायिकाभेदपरतया रचिता । रतिक्रीडा अङ्गना च मनुष्यजीवनस्यापेक्ष्योपादानविशेषौ तावधिकृत्य कृतोऽयं ग्रन्थः । अत्र का त्रुटिर्यामपनेतुं ब्रह्मज्ञानमत्र समावेशयितुं प्रयस्यन्ति सुधिय इति न जाने । अस्य कवेर्व्यञ्जनाशक्तिरतिप्रौढा –

असद्वृत्तौ नायं न च खलु गुणैरेव रहितः
            प्रियो मुक्ताहारस्तव चरणमूले निपतितः ।
गृहाणेमं मुग्धे व्रजतु निजकण्ठप्रणयिता –
              मुपायो नास्त्यन्यस्तव हृदयसन्तापशमने ॥

अत्र पद्ये वृत्तगुणाहारादिपदेषु श्लेषमहिम्ना यमर्थं कविर्व्यञ्जयति स परमरम्यो मूलभित्तिश्चास्य रसपेशलस्य काव्यस्य । अन्येऽप्यस्य रम्याः –‘प्रस्थानं वल्यैः कृतम्’ इत्यादयः श्लोकाः प्रसिध्दाः । अस्य सर्वोऽपि गन्थः परवर्त्तिभिः कविभिरात्मसात्कृतो भाषाकविभिः विहारिदासपद्माकरादिभिरनूदितकल्पश्च कृतः ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अमरुः&oldid=479902" इत्यस्माद् प्रतिप्राप्तम्