अमर्त्य सेन
अमर्त्यसेनः विख्यातः भारतीयः अर्थशास्त्रज्ञः । अर्थशास्त्राय एतेन कृतानि योगदानानि, समाजस्य निर्धनानां समस्यानां विषये अस्य आसक्तिं च पुरस्कृत्य अयं १९९८ तमे वर्षे नोबल्-पारितोषिकेण सम्मानितः । दुर्भिक्षायाः हेतूनां विषये अनेन कृतानां प्रयासानां कारणतः आहाराभावसमस्यायाः प्रायोगिकपरिहारान् प्राप्तुं शक्तवन्तः । नेषनल्-हुमानिटिस्-पदकम् अनेन २०१२ तमे वर्षे प्राप्तम् । इदं पदकं प्राप्तवान् प्रथमः अनिवासी-अमेरिकाजनः अयमेव ।
Capability Approach | |
---|---|
Official Portrait at the Nobel Prize | |
जन्म |
Santiniketan, Bengal Presidency, British India (present-day West Bengal, India) | ३ १९३३
राष्ट्रियता | Indian |
संस्था | |
कार्यक्षेत्रम् | Welfare economics, development economics, ethics |
मुख्यशिक्षणम् |
Presidency College of the University of Calcutta (B.A.), Trinity College, Cambridge (B.A., M.A., Ph.D.) |
प्रभावः | |
प्रभावितः | |
योगदानम् | Human development theory |
प्रशस्तयः |
Nobel Prize in Economics (1998) Bharat Ratna (1999) National Humanities Medal (2012)[३] |
Information at IDEAS/RePEc |
अद्यत्वे अयं थामस् डब्ल्यू लमण्ट् विश्वविद्यालये प्राध्यापकः, हार्वर्ड् विश्वविद्यालये अर्थशास्त्र-तत्त्वशास्त्रयोः प्राध्यापकः च अस्ति । हार्वर्ड्-सोसैटि-सदस्येषु अयं ज्येष्ठः गौरवसदस्यः अस्ति । आल् सोल्स् विद्यालयस्य आक्स्फर्ड् विद्यालयस्य च विशिष्टगौरवसदस्यः, ट्रिनिटि-केम्ब्रिड्ज्-विद्यालययोः गौरवसदस्यश्च अस्ति [४]। आक्स्ब्रिड्ज्-विद्यालयस्य प्रथमः भारतीयः प्रथमः एशियनीयः प्रमुखः अस्ति ।
चत्वारिंशत्सु वर्षेषु अमर्त्यसेनस्य पुस्तकानि एकत्रिंशदधिकाभिः भाषाभिः अनूदिताः सन्ति । शान्त्यै रक्षणाय च अर्थशास्त्रज्ञाः (Economists for Peace and Security) इत्येतस्य गणस्य विश्वस्तः अस्ति ।
'टैम्'पत्रिकया निर्दिष्टम् अस्ति यत् 'एशियन्-नायकानां ६० वर्षाणि' इत्यस्याम् आवल्यां तस्य नाम योजितवती अस्ति । अपि च 'जगतः १०० अति प्रभावशालिनः जनाः' इत्यत्र अपि अस्य नाम् योजितमस्ति । 'जगतः अपेक्षिताः ५० अति प्रभावशालिनः' इत्यस्मिन् २०१० तमायां सञ्चिकायाम् अस्य नाम निर्दिष्टवती अस्ति न्यू स्टेट्स्मन् पत्रिका ।
बाल्यजीवनं विद्याभ्यासश्च
सम्पादयतुपश्चिमवङ्गराज्ये शान्तिनिकेतने हिन्दुवङ्गवैद्यब्राह्मणकुले सेनस्य जन्म अभवत् । रवीन्द्रनाथठागूरेण 'अमर्त्यसेनः' इति नाम चितम् इति श्रूयते । तस्य मातामहः आचार्यः क्षितिमोहनसेनः रवीन्द्रनाथठागूरस्य आत्मीयः आसीत् । सः मध्यकालीनभारतीयेतिहासस्य तज्ज्ञः, हिन्तुतत्त्वशास्त्रे कृतभूरिपरिश्रमः, विश्वभारती-विश्वविद्यालयस्य द्वितीयः उपकुलपतिश्च आसीत् । तस्य मातामहः, प्रथमनिर्वाचनाधिकारिणः सुकुमारसेनस्य, प्रसिद्धवैद्यस्य अमियासेनस्य, न्यायवादिनः अशोककुमारस्य च पितृव्यः आसीत् । सेनस्य पिता प्राध्यापकः आशुतोषसेनः माता अमिता । एतौ ढाकायाः मणिक्गञ्जे जन्म प्राप्तवन्तौ । तस्य पिता ढाकाविश्वविद्यालये रासायनिकशास्त्रस्य प्राध्यापकः आसीत् । अग्रे वेस्ट्बेङ्गाल्-पब्लिक्-सर्वीस्-कमीषन्-संस्थायाः अध्यक्षरूपेण देहल्यां बहूनि वर्षाणि कार्यम् अकरोत् ।
आधुनिक-पश्चिमवङ्गराज्यस्य ढाकायां सैण्ट् ग्रेगोरिविद्यालये सेनस्य प्रौढशालाभ्यासः जातः । १९४७ तमे वर्षे भारतस्य विभजनानन्तरं तदीयं कुटुम्बं भारतं प्रति आगतम् । भारते सेनः विश्वभारती-विश्वविद्यालय-विद्यालये अपठत् । ततः कोल्कोतानगरस्थे प्रेसिडेन्सिविद्यालये अर्थशास्त्रम् अधीत्य बि ए पदवीं प्रथमश्रेण्यां प्राप्तवान् । १९५३ तमस्य गणस्य अति प्रतिभावान् विद्यार्थी आसीत् सः । तस्मिन् एव वर्षे सः केम्ब्रिड्ज्मध्ये विद्यमानं ट्रिनिटिविद्यालयं प्रति अगच्छत् । तत्र १९५६ तमे वर्षे ऐच्छिकपदवीपरीक्षां प्रथमश्रेण्या उत्तीर्णः । सः केम्ब्रिज् मजिसस्य अध्यक्षरूपेण चितः ।
ट्रिनिटिविद्यालये पठनावसरे एव सेनेन प्रशान्तचन्द्रमहलनोबिसः मिलितः, यः सेनस्य व्यक्तित्वात् नितरां प्रभावितः जातः । कलकत्तां गतः सः तदानीन्तनेन शिक्षणमन्त्रिणा त्रिगुणसेनेन अमिलत् । नूतनजादवपुरविश्वविद्यालयस्य संस्थापने त्रिगुणसेनः उपकरणरूपः जातः ।
परीक्षायाः समाप्तेः अनन्तरं सेनः अर्थशास्त्रे विद्यावारिधिं (डाक्टरेट्) प्राप्तुम् आवेदनं समर्प्य वर्षद्वयात्मकं विरामं प्राप्य भारतं प्रत्यागतः । त्रिगुणसेनः अनुपदमेव तं जाधवपुरस्य विश्वविद्यालये अर्थशास्त्रविभागे प्राध्यापकत्वेन नियुङ्क्तवान् । तदा तस्य वयः आसीत् २३ वर्षाणि । अद्यत्वे अपि तस्मिन् लघुवयसि विश्वविद्यालये प्राध्यापकत्वं प्राप्तवान् जनः सः एकः एव अस्ति । तत्र कार्यकरणावसरे बेनारस् हिन्दु विश्वविद्यालये पाठयतः अर्थशास्त्रे कृतभूरिपरिश्रमस्य ए के दासगुप्तस्य मार्गदर्शनं सेनेन प्राप्तम् । सेनः १९५९ तमे वर्षे केम्ब्रिड्ज्विद्यालयं प्रतिगतवान् ।
ट्रिनिटीविद्यालयतः तेन विशेषानुमतिः प्राप्ता यत् वर्षचतुष्टयं तेन यत्किमपि कर्तुं शक्यते इति । तदवसरे तेन तत्वशास्त्रम् अध्येतव्यम् इति अपूर्वनिर्णयः कृतः । अग्रिमशोधकार्याय इदं नितरां प्रयोजनाय जातम् । तत्त्वशास्त्रस्य अध्ययनस्य महत्त्वविषये सः वदति - अर्थशास्त्रस्य केचन प्रमुखाः अंशाः तत्त्वशास्त्रस्य पृष्ठभूमिकायामेव समीचीनतया अवगन्तुं शक्याः इत्येतन्मात्रं न अपि च तत्त्वशास्त्रस्य पठनं स्वयं महत्त्वपूर्णम् इति ।
अध्यापनम्
सम्पादयतु१९६०-१९६१ वर्षयोः अमर्त्यः मस्सचुसेट्स् इन्स्टिट्यूट् आफ् टेक्नालजि विद्यालये सन्दर्शक-प्राध्यापकत्वेन कार्यम् अकरोत् [५]। बर्क्ले, स्ट्यान्फोर्ड्, कार्नेल् महाविद्यालयेषु अपि एवं कार्यम् अकरोत् । तेन कल्कत्ताविश्वविद्यालये अपि अर्थशास्त्रं बोधितम् । १९६१ तः-१९७२ पर्यन्तं डेल्लि स्कूल् आफ् एकनामिक्स् शिक्षणसंस्थायां प्राध्यापकत्वेन कार्यं कृतम् । अयं कालः तस्याः संस्थायाः स्वर्णकालः इति कथ्यते । १९७२ तः १९७७ पर्यन्तं तेन लण्डन् स्कूल् आफ् एकनामिक्स् मध्ये अर्थशास्त्रप्राध्यापकत्वेन कार्यं कृतम् । १९७७ तः १९८६ पर्यन्तम् आक्स्फर्ड्-विश्वविद्यालये कार्यं कृतम् । १९८६ तमे वर्षे तेन हार्वर्ड्-विश्वविद्यालयः प्रविष्टः । १९८८ तः २००४ पर्यन्तं केम्ब्रिड्ज्-विश्वविद्यालये कार्यम् अकरोत् । पुनः २००४ तमे वर्षे हार्वर्ड्-प्रति प्रत्यागच्छत् ।
संशोधनानि
सम्पादयतु१९८१ तमे वर्षे अमर्त्यसेनेन 'दारिद्र्य-दुर्भिक्षयोः सामर्थ्यं लोपाश्च' (Poverty and Famines: An Essay on Entitlement and Deprivation) इत्येतस्मिन् विषये किञ्चन पुस्तकं प्रकाशितम् । अस्मिन् पुस्तके दुर्भिक्षायाः कारणम् आहाराभावमात्रं न अपि तु आहारवितरणव्यवस्थायाः न्यूनताः इति समीचीनतया प्रतिपादितः अस्ति [६]। वङ्गराज्यस्य दुर्भिक्षायाः कारणं नगरे जातस्य आहारमूल्यवर्धनम् । ततः ग्रामीणाः दिनभृत्यकाः आहाराभावेण मृत्युं प्राप्तवन्तः । नववर्षीयेण सेनेन १९४३ तमे वर्षे वङ्गराज्ये दुर्भिक्षा स्वयं दृष्टा आसीत् यस्यां ३० लक्षजनाः मरणं प्राप्तवन्तः । सेनस्य दृष्ट्या एतावता प्रमाणेन जीवनाशः अनिवार्यः न आसीत् । तेन दर्श्यते यत् तदवधौ वङ्गराज्ये अपेक्षितः आहारराशिः आसीत् एव । अचिरात् वर्धितम् आहारमूल्यं दातुं भृत्यगणः न अशक्नोत् । निरुद्योगः, असमीचीना आहारवितरणव्यवस्था, विविधाः सामाजिकाः समस्याः च दुर्भिक्षायाः कारणानि भवन्ति । सकारात्मकं स्वातन्त्र्यं सर्वेषां न आसीत् इत्यतः एवं महता प्रमाणेन जीवनाशः जातः इति प्रतिपादयति सेनः । एतदतिरिच्य तेन समाजोपरकराणि अन्यानि बहूनि संशोधनानि कृतानि |
वैयक्तिकं जीवनम्
सम्पादयतुसेनस्य प्रथमा पत्नी नबनीतदेवसेनः भारतीयलेखिका विदुषी च । तयोः उभे अपत्ये - अन्तरा, नन्दना च । अन्तरा पत्रकर्त्री, नन्दना बालिवुड्नटी च । भिन्नाभिप्रायकारणतः तयोः विवाहः अचिरादेव १९७१ तमे वर्षे एव विच्छिन्नः जातः [७]। १९७३ तमे वर्षे तेन द्वितीयः विवाहः कृतः । पत्नी जूविष्-महिला इवा कोलोर्नि या उदरार्बुदरोगात् १९८५ तमे वर्षे दिवङ्गता । तयोः अपत्ये न्यूयार्क्-पत्रकर्त्री इन्द्राणी, शाडी-हिल्-विद्यालये सङ्गीतशिक्षकः कबीरः । १९९१ तमे वर्षे सेनेन एम्मा गोर्गिना परिणीता । सेनः विरामकालं भारते, पश्चिमवङ्गे, शान्तिनिकेतने यापयति । बैक्याने दीर्घप्रयाणं तस्मै रोचते । मस्साचुसेट्स्नगरे विद्यमाने स्वगृहे पत्न्या एम्मया सह दीर्घविरामं यापयति । अधिकं पठनं जनैः सह चर्चाकरणञ्च तस्मै रोचते ।
आकराः
सम्पादयतु- ↑ The Idea of Justice (2009).
- ↑ Deneulin, S., (2009). "Intellectual roots of Amartya Sen: Aristotle, Adam Smith and Karl Marx – Book Review". Journal of Human Development and Capabilities, 10 (2), pp. 305–306.
- ↑ "2011 US National Humanities Medals". National Endowment for the Humanities. Archived from the original on 13 February 2012. आह्रियत 11 February 2012.
- ↑ "ट्रिनिटि विश्वविद्यालय केम्ब्रिड्ज् - The Fellowship". आह्रियत 17 मार्च 2014.
- ↑ ""Amartya Sen – Autobiography"". आह्रियत 17 मार्च 2014.
- ↑ "The Real Causes of Famine". आह्रियत 17 मार्च 2014.
- ↑ Steele, Jonathan. "The Guardian Profile: Amartya Sen". London: The Guardian.