अम्बरीषः
सः अयोध्याकुलस्य राजा आसीत्। अम्बरीषः इत्यपि अस्य नाम श्रूयते । इक्ष्वाकुवंशस्य मान्धातृचक्रवर्तिनः राज्ञ्यां बिन्दुमत्यां जनिमलभत । अस्य पुत्रः यवनाश्वनामा । अंबरीषः एकदा यागदीक्षितोऽभवत् । तदा तस्य याज्ञाश्वः नष्टः । अतः एषः शुनश्शेफः इति नामानं ऋषिकुमारं शतेन गवां क्रीतवान् । यागं च समाप्तिमनयत् । ( रामा. बाल. ६१.) श्रीमद्भागवते उक्तरीत्या एषः नभगस्य पौत्रः, नाभागस्य पुत्रः विष्णोः परमभक्तः । एकदा एकादशीव्रतपरायणस्य एतस्य नियमभङ्गं चिकीर्षुः दुर्वासाः मुनिः द्वादश्यां तिथौ प्रातरेव समागत्य भोजनम् अयाचत, स्नानादिकमनुष्ठितुं नदीं गतो नायातः तिथ्यवसाने समासन्नेऽपि । पारणाकालातिक्रमदोषभीरू राजा तदितरै ऋषिभिरनुज्ञां प्राप्य पारणाप्रतिनिधि जलं प्राश्नात् । तदा तत्रागतः दुर्वासाः अम्बरीषं शशाप । तदैव भक्तपराधीनः महाविष्णुः दुर्वाससं प्रति चक्रायुधं प्रायुङ्त । सुदर्शनचक्रात् आत्मानं रक्षितुं उपायान्तरमनवाप्य अम्बरीषमेव शरणं गतः । एतस्य श्रीमती नाम्नी लोकोत्तरसुन्दरी पुत्री आसीत् । कदाचित् पर्वतः नारदः च श्रीमतीं दृष्ट्वा मोहपरवशौ तां प्राप्तुमुद्युक्तावभवताम् । अम्बरीषः तयोरुपायं न्यवारयत् । तदा निराशावेतौ अम्बरीषं शप्तुमुदयुञ्जाताम् । तावता समागतात् जाज्वल्यमानात् विष्णुचक्राद्भीतौ पलायितौ च । ततोऽम्बरीषः तां स्वक्न्यां विष्णवे प्रादात् ।
अम्बरीषः दूर्वासः च | |
---|---|
अम्बरीषः दूर्वासः च |