अरुणा आसफ अलि
अरुणा आसफ अलि भारतीयस्वातन्त्र्यकार्यकर्त्री, क्रान्तिकारिणी च आसीत् । स्वतन्त्रतान्दोलनेषु अस्याः महत्योदानं वर्तते । अस्य जन्मनाम अरुणा गांगुली इति आसीत् । ई. स. १९४२ तमे वर्षे “भारत छोडो” इत्यस्य आन्दोलनसमये मुम्बई-नगरस्य “गोवालिया टैङ्क् क्षेत्रे” तया कॉङ्ग्रेसध्वजः समुच्छ्रितः । अस्यै क्रियायै सः भारते प्रसिद्धा जाता । भारतस्य स्वतन्त्रतायै तया आङ्ग्लैः सह सङ्घर्षः कृतः आसीत् । स्वातन्त्र्यानन्तरम् अपि सा राजनीतौ सक्रिया एव आसीत् । ई. स. १९५८ तमे वर्षे सा देहली-नगरस्य प्रथमः महापौरः अभवत् । ई. स. १९६० तमे दशके तया प्रचार-प्रसारमाध्यमकेन्द्रम् आरब्धम् । ई. स. १९९७ तमे वर्षे सर्वकारेण तस्याः मृत्योरनन्तरं तस्यै भारतरत्नप्रशस्तिः प्रदत्ता आसीत् ।
अरुणा आसफ अलि | |
---|---|
सञ्चिका:Aruna asaf ali.jpg अरुणा आसफ अलि | |
जन्म |
Aruna Ganguly १६ जुलाई १९०९ कालका, पंजाब, ब्रितानी भारत (वर्तमान हरियाणा) |
मृत्युः | २९ १९९६ | (आयुः ८७)
देशीयता | भारतीय |
शिक्षणस्य स्थितिः | सेक्रेड हार्ट कॉन्वेंट |
वृत्तिः | भारतीय स्वतंत्रता सेनानी, अध्यापिका |
भार्या(ः) | आसफ़् अली |
जन्म, परिवारश्च
सम्पादयतुई. स. १९०९ तमस्य वर्षस्य जुलाई-मासस्य १६ दिनाङ्के (१६ जुलाई १९०९) तत्कालीनस्य पञ्जाब-राज्यस्य कालका-नगरे तस्य जन्म अभवत् [१]। साम्प्रतम् इदं नगरं हरियाणा-राज्ये स्थितम् अस्ति । सः ब्राह्मणः आसीत् । तस्याः पितुः नाम उपेन्द्रनाथ गाङ्गुली आसीत् । अम्बालिकदेवी तस्याः माता आसीत् । अम्बालिकादेवी “त्रैलोक्यनाथ सन्याल” इत्याख्यस्य पुत्री आसीत् । त्रैलोक्यनाथः अपि श्रेष्ठलेखकः आसीत् । उपेन्द्रनाथः भोजनालयस्य स्वामी आसीत् । नैनीताल-नगरे तस्य भोजनालयः स्थितः आसीत् । उपेन्द्रनाथस्य अनुजः धीरेन्द्रनाथः चलच्चित्रनिर्देशकः आसीत् । उपेद्रनाथस्य अपरः नागेन्द्रनाथः नामकः भ्राता आसीत् । सः विश्वविद्यालये प्राध्यापकः आसीत् । “रवीन्द्रनाथ ठाकुर” इत्याख्यस्य पुत्र्या मीरादेव्या सह नागेन्द्रनाथस्य विवाहः अभवत् । मीरादेवी नोबलपुरस्कारः प्राप्तवतीआसीत् । अरुणायाः “पूर्णिमा बनर्जी” इत्याख्या भगिनी भारतस्य संविधानसभायाः सदस्या आसीत् । तस्याः द्वौ भ्रातारौ, तिस्रः भगिन्यश्च आसन् ।
शिक्षणम्
सम्पादयतुअरुणायाः प्राथमिकं शिक्षणं लाहोर-नगरस्य “सेक्रेट् हार्ट् ऑफ् जिसस्” इत्यस्मिन् विद्यालये अभवत् । अयं विद्यालयः ईसाई-धर्मावलम्बिभिः चाल्यते स्म । अतः अस्मिन् विद्यालये ईसाई-धर्मस्य शिक्षणं अधिकं दीयते स्म । तेन प्रभावेण अरुणा अपि ईसाई-धर्मं अङ्गीकर्तुम् ऐच्छत् । किन्तु अरुणायाः पिता अस्मिन् विषये ज्ञातवान् । उपेन्द्रनाथः अरुणायाः विद्यालयं परिवर्तितवान् । अनन्तरं नैनीताल-नगरस्य “प्रोटेस्टण्ट्-विद्यालये” अरुणायाः प्रवेशम् अकारयत् । तत्र अरुणा उच्चविद्यालयस्य शिक्षणं प्राप्तवती । अस्याः बुद्धिः कुशाग्रः आसीत् । बाल्यकालादेव कक्षायां सः सर्वोच्चस्थानं प्राप्नोति स्म । स्नातककक्षानन्तरं सा कोलकाता-नगरस्य “गोखले मेमोरियल” इत्यस्मिन् विद्यालये शिक्षिकात्वेन आसीत् ।
विवाहः
सम्पादयतुअरुणायाः अनुजा पूर्णिमा इलाहाबाद-नगरे निवसति स्म । पूर्णिमा अनुजा आसीत्, तथापि तस्याः विवाहः अरूणायाः पूर्वमेव जातः आसीत् । अरुणा पूर्णिमायाः गृहे निवसितुं गतवती । इलाहाबाद-नगरे अरुणया सह कॉङ्ग्रेस-पक्षस्य नेतुः “आसफ अली” इत्याख्यस्य परिचयो जातः । “आसफ अली” इत्याख्यः देहली-नगरस्य प्रसिद्धः अधिवक्ता अपि आसीत् । “आसफ अली” इत्याख्यः आङ्ग्लसाहित्यज्ञः आसीत् । अरुणायाः अपि आङ्ग्लसाहित्ये अभिरूचिः आसीत् । अतः अरुणा “आसफ अली” इत्यस्मात् प्रभाविता जाता । ई. स. १९२८ तमे वर्षे अरुणा “आसफ अली” इत्याख्येन सह विवाहम् अकरोत्[२] [३]। “आसफ अली” अरुणायाः विंशतिवर्षाणि ज्येष्ठः आसीत् । अरुणायाः पिता अस्य अन्तर्जातीयविवाहस्य विरोधं कुर्वन् आसीत् । किन्तु तथापि अरुणया “आसफ अली” इत्याख्येन सह विवाहः कृतः । अरुणा “आसफ अली” इत्याख्येन निवससी आसीत् । अनन्तरम् अरुणा राजनीतिक्षेत्रं प्राविशत् । राष्ट्रियान्दोलनेषु अपि सा सक्रिया अभवत् ।
राजनैतिकजीवनम्
सम्पादयतुविवाहानन्तरम् अरुणा पूर्णतया राजनीतिक्षेत्रे एव सक्रिया अभवन् । सा स्वतन्त्रान्दोलनेषु भागं गृहतवती । महात्मागान्धिनः, “मौलाना अबुल कलाम” इत्याख्यस्य च सभासु अपि सा भागं वहति स्म । एतयोः द्वयोः नेत्रोः प्रभावः तस्याः जीवने अभवत् । अतः सा सततं कार्याणि कुर्वन्ती आसीत् । तदनन्तरं “जयप्रकाश नारायण”, “राम मनोहर लोहिया”, “अच्युत पटवर्धन” इत्याख्यैः सह अरुणायाः परिचयो जातः । एतैः सह मिलित्वा अपि अरुणया आन्दोलनेषु क्रान्तिकारिकार्याणि कृतानि । ई. स. १९३० तमे वर्षे, १९३२ तमे वर्षे, १९४१ तमे वर्षे च सत्याग्रहान्दोलनानि कृतानि । तदा सा कारागारम् अपि गतवती आसीत् । ई. स. १९३१ तमे वर्षे “गान्धी-इरविन्-सन्धौ” बहवः राजबन्धिनः मुक्ताः अभवन् । किन्तु आङ्ग्लसर्वकारः अरुणां मुक्तकर्तुं नेच्छति स्म । “अरुणा अवधानरूपा अस्ति” इति आङ्ग्लसर्वकारेण मन्यते स्म । किन्तु महात्मागान्धिनः साहाय्येन, जनमतेन च अरुणा कारागारात् मुक्ता जाता । अग्रिमे वर्षे सा पुनः सत्याग्रहान्दोलनम् आरब्धम् आसीत् । अतः सर्वकारेण तस्यै द्विशतं रूप्यकाणां दण्डः निर्धारितः । अपरं च षण्मासात्मकः कारावासस्य दण्डः कृतः । किन्तु सा द्विशतं रुप्यकाणां दण्डं दातुं नैच्छत् । तदा रक्षकैः तस्य बहुमूल्यका शाटिका आकलिता । अनन्तरम् आङ्ग्लसर्वकारेण सा देहली-नगरस्य कारागारं प्रेषिता । कारागारे बन्दीनां स्थितिं दृष्ट्वा सा अनशनं चकार । अन्ते कारागारस्य अधिकारिभिः अरुणायाः याचनासु विचारः कृतः । अनन्तरम् “अरुणायाः मनःस्थितिः न्यूना भवेत्” इति विचिन्त्य आङ्ग्लसर्वकारेण अरुणा देहली-नगरस्य कारागारात् अम्बाला-नगरस्य कारागारं प्रेषिता । तस्मिन् कारागारे अरुणां कोऽपि मेलितुं न शक्नोति स्म । कारागारात् बहिः आगते सति अरुणया निश्चितं यत् – “कदापि कारागारं न गमिष्यामि, गुप्तरीत्या एव कार्यं करिष्यामि । सर्वे जनाः कारगारं गच्छन्ति ? यदि सर्वे गमिष्यन्ति, तर्हि बाह्यकार्याणि कः करिष्यति ? आन्दोलनम् अपि नेतृत्वहीनं भविष्यति” इति [४]।
ई. स. १९४२ तमे वर्षे “भारत छोडो” आन्दोलने अपि भागम् अवहत् । तया अन्येषां कार्यकर्तॄणां नेतृत्वमपि कृतम् आसीत् । ई. स. १९४२ तमस्य वर्षस्य अगस्त-मासस्य ८ दिनाङ्कस्य (८ अगस्त १९४२) रात्रौ बहवः नेतारः रक्षकैः बद्धाः । यदा महात्मादयः कारागारं गतवन्तः आसन्, तदा मुम्बई-नगरस्य “गोवालिया टैङ्क् क्षेत्रे” तया कॉङ्ग्रेसध्वजः समुच्छ्रितः । अनन्तरं सा राहसं गता । राहसे सति एव सा आन्दोलनस्य नेतृत्वं कुर्वन्ती आसीत् । तया “राममनोहर लोहिया” इत्याख्येन सह जनजागृतये “इन्कलाब” इत्येतत् पत्रम् आरब्धम् [५] । अस्य पत्रस्य माध्यमेन जनेषु राष्ट्रियभावनां जागर्तुं प्रयासाः कृताः । समयान्तरे अरुणया मुम्बई-नगरे विरोधसभा आयोजिता । अस्यां सभायां तया विदेशसर्वकारस्य विरोधः कृतः । गुप्तरीत्या अपि सा कॉङ्ग्रेस-जनानां मार्गदर्शनं कृतवती आसीत् । मुम्बई-नगरे, कोलकाता-नगरे, देहली-नगरे च भ्रमन् भ्रमन् नवजागृतये जनान् प्रेरयति स्म । तथापि ई. स. १९४२ तः १९४६ तमवर्षपर्यन्तम् अपि सा रक्षकैः न बद्धा । ई. स. १९४६ तमवर्षपर्यन्तं सा गुप्तजीवनम् इव जीवति स्म । किन्तु ई. स. १९४७ तमे वर्षे अरुणा देहली-प्रदेशस्य कॉङ्ग्रेस्-समितेः अध्यक्षात्वेन निर्वाचिता जाता । देहली-नगरे कॉङ्ग्रेस-पक्षः तया सुसङ्घटितः । ई. स. १९४८ तमे वर्षे अरुणा “सोशलिस्ट् पार्टी” इत्यस्मिन् पक्षे सम्मिलिता । वर्षद्वयानन्तरं ई. स. १९५० तमे वर्षे तया तं पक्षं त्यक्त्वा “लेफ्ट् स्पेशलिस्ट् पार्टी” इति पक्षः निर्मितः । सा सक्रिया भूत्वा “श्रमिकान्दोलने” सलंग्ना अभवत् । अन्ते ई. स. १९५५ तमे वर्षे “लेफ्ट् स्पेशलिस्ट् पार्टी” इत्ययं पक्षः कम्युनिस्ट्-पक्षे विलीनः जातः । समयान्तरे सा “भारतीय कम्युनिस्ट्” इत्यस्य पक्षस्य केन्द्रीयसमितेः सदस्या अभवत् । सा “ऑल् इण्डिया ट्रेड् यूनियन् कॉङ्ग्रेस्” अस्य पक्षस्य उपाध्यक्षात्वेन अपि चिता । ई. स. १९५८ तमे वर्षे तया कम्युनिस्ट्-पक्षः त्यक्तः । ई. स. १९६४ तमे वर्षे “जवाहरलाल नेहरू” इत्याख्यस्य मृत्योः अनन्तरं सा पुनः कॉङ्ग्रेस-पक्षेण सह अल्पकालाय एव सलंग्ना अभवत् । ई. स. १९५८ तमे वर्षे सा देहली-नगरनिगमस्य प्रथमः महापौरः अभवत् । महापौरत्वेन तया देहली-नगरस्य विकासाय, स्वच्छतायै, स्वास्थ्यसम्बन्धिभ्यः विषयेभ्यः च बहूनि कार्याणि कृतानि । नगरनिगमस्य कार्यप्रणाली अपि तया सुव्यवस्थिता कृता । अरुणा बहुभिः सङ्घटनैः सह सम्बद्धा आसीत् । “इण्डोसोवियत कल्चरल सोसाइटी”, “ऑल् इण्डिया पीस् काउन्सिल्”, “नेशनल फैडरेशन् ऑफ् इण्डियन् वूमन्” इत्यादिभिः संस्थाभिः सह सा कार्यं कृतवती ।
पुरस्काराः
सम्पादयतुई. स. १९६४ तमे वर्षे अरुणायै सर्वकारेण ”लेनिन-शान्तिपुरस्कारः” प्रदत्तः आसीत् । ई. स. १९९१ तमे वर्षे अरुणा “जवाहरलालनेहरू-अन्ताराष्ट्रियसद्भावनापुरस्कारं” प्राप्तवती । ई. स. १९९२ तमे वर्षे सा पद्मविभूषणप्रशस्तिना सम्मानिता । तस्मिन्नैव वर्षे अरुणया राष्ट्रियैकतायै “इन्दिरागान्धि-पुरस्कारः” अपि प्राप्तः [६]।
भारतरत्नप्रशस्तिः
सम्पादयतुई. स. १९९७ तमे वर्षे मृत्योः अनन्तरं सा सर्वोच्चनागरिकसम्मानेन भारतरत्नप्रशस्तिना सम्मानिता [७]।
सम्माननानि
सम्पादयतुई. स. १९९८ तमे वर्षे भारतसर्वकरेण पत्रसन्देशचीटिकायाम् अरुणायाः चित्रं प्रकाशितम् आसीत् । अरुणायाः सम्मानने नवदेहली-सर्वकारेण कस्यचित् मार्गस्य नाम अपि “अरुणा-आसफ-अली-मार्ग:” इति प्रदत्तम् ।
मृत्युः
सम्पादयतुई. स. १९९६ तमस्य वर्षस्य जुलाई-मासस्य २९ तमे (२९ जुलाई १९९६) दिनाङ्के अरुणायाः मृत्युः अभवत् [८]। अवसानसमये सः सप्ताशीतिवर्षदेशीया आसीत् ।
सन्दर्भः
सम्पादयतु- ↑ हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३२६
- ↑ મહિલા ક્રાન્તિકારીઓ, જિતેન્દ્ર પટલે, पृ. - १११
- ↑ हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३२७
- ↑ મહિલા ક્રાન્તિકારીઓ, જિતેન્દ્ર પટલે, पृ. - ११२
- ↑ મહિલા ક્રાન્તિકારીઓ, જિતેન્દ્ર પટલે, पृ. - ११२
- ↑ हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३२९
- ↑ हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३२९
- ↑ हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३३०