संपूर्णवाक्यत्वमर्थव्यक्तिः । अर्थबोधने वाक्यं यत्र निराकांक्षं भवति तत्रार्थव्यक्तिः । अर्थगतमनेयत्वमर्थव्यक्तिरिति दण्डी प्रोवाच । अस्यैवार्थदीपनमिति नामान्तरम् । यथा –

भाग्यं मध्यमलोकनिघ्नमधुना येनास्य संरक्षिता
जातः खेलति वीररुद्रनृपतिर्निस्सीमशौर्योदयः ।
यद्वा त्रीण्यपि विष्टपानि दधते धन्यत्वमंशो हरेः
यत्साक्षादवतीर्यकाकतिकुले स्वैरं समुज्जृम्भते ॥

"https://sa.wikipedia.org/w/index.php?title=अर्थव्यक्तिः&oldid=372590" इत्यस्माद् प्रतिप्राप्तम्